SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् । मेव । न च देशेन व्युच्छेदे तदुच्छेदभणनमयुक्तमिति शङ्कनीयं, सर्वेषामपि तीर्थकृतां द्वादशाङ्ग्या आदिकरत्वानुपपत्तिप्रसक्तेः। केषांचित् तीर्थप्रवृत्तिकाले द्वादशाझ्या देशनैव व्युच्छिन्नत्वादिति सम्यक पर्यालोच्यम् । किञ्च-यदि पौर्णिमीयकादयः 'अप्परगंथमहत्थ'मित्यादिसूत्रलक्षणमज्ञास्यत्, तर्हि श्रीमहानिशीथे चतुर्दशीशब्दो वर्तते, न पुनः पाक्षिकशब्द इत्यादिकं नावक्ष्यत् । चतुर्दशीपाक्षिकशब्दयोः पर्यायवाचित्वेन इन्द्रः शक्रः इत्यादिवदर्थतः पुनरुक्तताया अपरिज्ञानात् । एवं लौम्पकोऽपि उपासकदशाङ्गे परतीर्थिकपरिगृहीतचैत्यानामकल्प्यतैवोक्ता, न पुनः क्वापि स्वीर्थिकपरिगृहीतचैत्यानां कल्प्यतेति नावक्ष्यत् । देवदत्तो दिवा न भुङ्क्त इत्यर्थादापन्नस्य रात्रिभोजनस्य, रात्रौ भुङ्क्ते इतिशब्देन साक्षाद्भणने पुनरुक्ततावत् अर्थादापन्नायाः स्वतीर्थिकपरिगृहीतचैत्यानां कल्प्यतायाः साक्षातशब्देन भणने पुनरुक्तता स्यात् । सा च दशमो दोषः गणधरकृते सूत्रे न सम्भवति, सूत्रदोषाऽपरिज्ञानेन सूत्रकरणेऽनधिकारापत्तेः । तथा नियुक्त्याद्यनङ्गीकारोऽपि नाभविष्यत्, अल्पग्रन्थमहार्थतायाः अन्यथानुपपत्त्या नियुक्त्याद्यङ्गीकारस्थाऽऽवश्यकत्वात् । अन्यथा सूत्रलक्षणभंगेन सूत्रमेव न स्यात् । एतेन सूत्रेऽविद्यमानं कुतस्तद्वृत्तौ भणितमिति शंकापि परास्ता । नियुक्त्या दिकमन्तरेण 'सुत्तत्थो खलु पढमो, बीओ णिज्जुत्तिमीसओ भणिओ' इत्यादि व्याख्यानविधिविलोपापत्त रित्यादि स्वयमेव पर्यालोच्यमिति गाथार्थः ॥ ७७ ॥ For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy