SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। न चैवं लौकिकमिथ्यादृशोऽपि भविष्यन्तीति शङ्कनीयं । तेषां प्रामादिभिः परित्यागाऽसम्भवेनोक्तप्रकारासम्भवात् । नहि क्वाप्यागमे उत्सूत्रभाषिवत् सांख्यादयोऽपि जैनप्रवचनविध्वंसका इति भणितं । तेषां जैन जैनत्वेन भाषमाणानां जिनवचनानुवादित्वेन जैनप्रवचनविध्वंसकत्वाभावादुत्सूत्रभाषिणास्तु जैनमजैनत्वेन भाषमाणा जिनवचनाननुवादित्वेन जमाल्यादयो जैनप्रवचनविध्वंसका इति तात्पर्यमिति गाथार्थः ।।७४।। ___ अथ तीर्थप्रतिपक्षाणां यदि उक्तप्रकारेण सूत्रार्थयोः परिज्ञानमभविष्यत् , तर्हि ते किमकरिष्यन्नित्याह-- एवं च सुत्तमत्थं, सम्मं जाणिंसु तित्थपडिवक्खा । ता अणुोगदारं, चइंसु जह महाणिसीहंपि ।। ७५ ॥ व्याख्या-एवं-प्रागुक्तप्रकारेण, सूत्रमर्थं च तीर्थप्रतिपक्षाःउत्सूत्रभाषणेन तीर्थविध्वंसकाः। यदीति गम्यं, यदि सम्यगघुणाक्षरन्यायेनाऽपि समीचीनमज्ञास्यत् 'ता' तर्हि अनुयोगद्वारमप्यत्यक्षत, उपलक्षणात् निजवचनविरोधिवचनात्मकं श्रीभगवतीप्रमुखमपि ग्राह्यम् । दृष्टान्तमाह-'जहे त्यादि। यथा महानिशीथमपि-श्रीमहानिशीथसूत्रमपि त्यक्तं, अपिशब्दात् निर्यक्त्यादिकमपि त्यक्तमिति गाथार्थः ॥७५।। अथ श्रीमहानिशीथवदनुयोगद्वारपरित्यागे हेतुमाहजं अणुओगे आगम, तिविहो दुविहो अ अणुगमो भणियो। सो तस्सेब पमाणं, जस्स य णिज्जुत्तिपमुहंपि ॥ ७६ ॥ व्याख्या-यत्-यस्मात् कारणात्, अनुयोगे-अनुयोगद्वारे, For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy