SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org — Acharya Shri Kailassagarsuri Gyanmandir शतकम् । जिनवचनानुवादरहिताः ग्राह्याः । व्याख्या -- एवमुक्तप्रकारेण दिगम्बरादयः, आदिशब्दात् पौर्णिमीय कौष्ट्रिकाञ्चलिकादयो तीर्थेन - श्री महावीरव्यवस्थापितसाध्वादिसमुदायलक्षणेन उद्घोषिताः - उच्चैःशब्देन लोकेभ्यो ज्ञापिताः, कथं ? बाढं- अत्यर्थ, तदुल्लेखस्त्वेवं—– ननु भो लोकाः ! दिगम्बरादयोऽर्हदवचनानुवादरहिताः तीर्थप्रतिपक्षाः मोक्षं प्रत्युन्मार्गभूताः इति ज्ञात्वा परिहरन्त्विति । तीर्थेन किंलक्षणेन १ निर्युक्तिसंज्ञितेन - निर्युक्त्या प्रेरितेन, निर्युक्तिपदमनुयोगद्वाराद्युपलक्षकम् । एतच्च 'णिव्वाणं चिइगागिइ जिणस्स इक्खागगाणं तु' इत्यादि प्रागुपदर्शितमिति गाथार्थः ॥ ६२ ॥ अथ पराभिप्रायं दूषयितुं प्रथमं पराभिप्रायमाह - तेसिं सव्वेसिं चिr, णिअणिअमग्गा हवंति तित्थाई । सेसं सव्वमतित्थं, इय बुद्धी सासया तेसिं ॥ ६३ ॥ | व्याख्या- तेषां - जैनाऽऽभासानां सर्वेषां सम्प्रति दिगम्बरादिपाशचन्द्रीयपर्यन्तानां निज- निजमार्गाः स्वस्वाभिमतसाध्वादिसमुदायास्तीर्थानि भवन्ति । यथा दिगम्बरस्य ननावेव देवगुरू भवत इति श्रद्धानात्मकः ( वान् ) समुदायस्तीर्थ | पौर्णिमीयकादीनां च पूर्णिमापाक्षिक कृत्य श्रद्धानात्मकसमुदायास्तीर्थानि भवन्ति । शेषं स्वस्वाभिमतमार्गाऽतिरिक्त सर्वमप्यतीर्थमिति शाश्वता - नियता बुद्धिरिति तेषामभिप्राय इति गाथार्थः ॥ ६३ ॥ अथैवं स्वस्वाभिमततीर्थानां भिन्नत्वे सिद्धे तीर्थकरमधिकृत्याऽभेदबुद्धिं निराकुर्वन्नाह For Private And Personal Use Only ६१ .
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy