________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शतकम् ।
तथाऽस्माकं देवोऽहन्नेवेति जैनाः, सुगत एवेति सौगताः वदन्तीत्येवं रूपेणानुवक्तुर्वचनमनुवादो भवति । जैन-सौगताभ्यां तथैव उच्यमानत्वात् । स एवाऽनुवादो जैना देवमर्हन्तं वदन्ति तत् सम्यग, अर्हति देवत्वस्य विद्यमानत्वात् । सौगतास्तु असम्यग्वादिनः, सुगते देवत्वस्यासत्त्वादि(ति) वचनविशेषणविशिष्टोऽनुवादोऽनुवादो-न भवति, जैनैः सौगतैश्चोक्तप्रकारेण सम्यगादिवचनविशिष्टवचनस्यानुक्तत्वात् । किन्तु परिशेषात् अनुवक्तुरेव वचनं भवति, निजवचनान्तर्गतस्याऽनुवादस्याऽपि निजवचनतया परिणमनात् । 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति न्यायात् । अत एव विशेषणभेदात् विशिष्टभेद' इति वचनमपि । तेन सम्यग्दृशं वक्तारमासाद्य सम्यग्दृशोच्यमानमित्यर्थः, भावतः सत्यं भवति । जैनाः सम्यगवादिनः असम्यगवा दिनश्च सौगता इति याथार्थेन भणनात् । मिथ्यादृशा तूच्यमानं भावतोऽसत्यमेव भवति, सर्वत्राऽपि वैपरीत्येन भणनात् । मिथ्यादृष्टिरुपयुक्तोऽनुपयुक्तो वा यद् भाषते, सा मृषेवेति दशवै० नि० वृत्तिवचनात् । एवमनुवादस्याऽनुवादकवचनतया परिणतौ स्वरूपं दर्शितमिति गाथार्थः ॥ ६०॥
अथोक्तार्थसमर्थनाय दृष्टान्तमाहजह परतित्थिअवयणं, अणुवयणं होइ जिणवरिंदस्स । मिच्छत्ति वयणजत्तं, जिणवयणं सवओ सच्चं ॥ ६१ ।।
व्याख्या-यथा परतीर्थिकवचनस्याऽनुवादो जिनेन्द्रस्य भवति । तच्चाऽनुवादवचनं मिथ्येतिविशेषणविशिष्टं (अनुवादा
For Private And Personal Use Only