SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् । ५७ अथ सम्यग्दृष्टिलौकिक मिध्यादृष्टिश्चेत्युभावपि अनुवदन्तौ द्रव्यतः सत्यवादिनौ भवतः, तत्र किं कारणमिति परिज्ञानाय अनुवादस्वरूपमाह सव्वेवि अणुवाया, णिअमा दव्वाओ सच्चवयणाई | अणुवाए अविवाओ, जमणुष्णं सव्ववाईणं ॥ ५८॥ व्याख्या–सर्वेऽप्यनुवादाः सम्यग्दृशां मिथ्यादृशां च परस्परं यावन्तो भवन्ति तावन्तो नियमात् - निश्चयेन द्रव्यतः सत्यवचनानि भवन्ति । द्रव्यत्वं च वचनविषयानपेक्षत्वेनावसातव्यम् । वचनविषयापेक्षया तु अनुवाद एव न भवति, किन्तु वक्तुर्निजवचनान्तर्गतत्वेन निजवचनतया परिणतो भवति । 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति न्यायात् वक्तुर्वचनं च भावतः सत्यमसत्यं च भवतीत्य दर्शयिष्यते । अथ सर्वेषामप्यनुवादानां द्रव्यतः सत्यत्वे हेतुमाह - 'अणवाए' इत्यादि । यत् यस्मात् कारणात् सर्ववादिनामनुवादे अन्योऽन्यमविवादो -विवादाभावः, द्रव्यतः सत्यत्वाभावे च नियमेन विवादो भवत्येव, तस्यैव विवादकारणत्वात् । यथा जिनवचनाऽननुवादिभिः पौर्णिमीयकादिभिः सह विवादः । यथा लोकेऽपि गां गजं ब्रुवाणेन सह विवादो निश्चितो भवति । तस्मात् सर्वेषामप्यनुवादानां साम्यमेवेति गाथार्थः ॥ ५८ ॥ अथ विवादकारणान्याह - अणुवायाणं विसया, सद्धाऽणुट्ठाणवाय गवयाई । पग्गं भिन्नाई, तेहिं विवाओ अ सव्वेसिं ॥ ५६ ॥ For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy