SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि निश्चयत उत्सूत्रमेव | व्यवहारोऽपीह मुग्धजनापेक्षया मन्तव्यः । विदुषां तूभयत्रापि उत्सूत्रमेव । तच्च जिनोक्तमेव न भवति । अतो न जिनोक्तानुवादः। यथा विषसंयुक्तं दुग्धं गव्यं न भवति, तथाभूतस्य दुग्धस्य गोरजातत्वात् । न च गोदध्यादौ व्यभिचार: शंकनीयः। इदं दुग्धमिति व्यवहारं यावन्निजस्वरूपाऽपरित्यागात्। अत एव निश्चयव्यवहाराभ्यां दुग्धमेव । यच्चोक्तमुपधानपञ्चाशके-उत्सूत्रवचनद्वयव्यतिरिक्तं गोष्ठामाहिलोक्तं प्रमाणतया भणितं, तद् व्यवहारतो जिनवचनाऽनुवादरूपत्वेनोक्तमवसातव्यम् । न पुनर्गोष्ठामाहिलोक्तत्वमात्रेणापि । एतद्व्यञ्जकं तु उत्सूत्रद्वयभणनेन शेषं तु सूत्रमेवेति वचनमेव । सूत्रं तु गणधरकृतत्वेन प्रमाणमेव । तदनुवादस्तु तद्वदेव प्रमाणं व्यवहारतो, निश्चयतश्च प्रागवदवसातव्यम् । यदि च निश्चयतोऽपि तदनुवादः प्रमाणं भवेत् , तर्हि गोष्ठामाहिलसमीपे धर्मकथाश्रवणनिषेधानुपपत्तिः प्रसज्येत । न चैवं निश्चयव्यवहारयोविवेकेन भणनमनागमिकं भविष्यतीति शङ्कनीयं, आगमेऽपि तथैव भणनात् । तथाहि पयमक्खरंपि इक्कंपि, जो न रोएइ सुत्तणिदिट्ट । सेसं रोअंतो विहु, मिच्छादिट्टी जमालिव्व ॥ १॥ त्ति पञ्चसंग्रहादौ । अत्र 'शेष रोचयन्नपी' ति भणनेन स्वरुच्यविषयाक्षरा दिव्यतिरिक्तस्य जिनवचनमात्रस्य श्रद्धानं व्यवहारत एव । तदनुसारेण भणनमपि जिनवचनाऽनुवादो व्यवहारत एव । स चानुवादो द्रव्यतः सत्य एव । सर्वेषामप्यनुवादानां For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy