SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४० व्याख्यान विधि तीर्थानभ्युपगमे तीर्थकरस्याप्यनभ्युपगमात् । नहि पुत्रानभ्युपगमे तज्जनकत्वेन पितृत्वाभ्युपगमः सम्भवति । पुत्रेणैव पितृत्वव्यपदेशस्य जायमानत्वात् । एवं च यथा जातेन पुत्रेण देवदत्तस्य पितृत्वपदवी दत्ता, तथा जिनेन व्यवस्थापितेन तीर्थेन जिनस्य तीर्थकरपदवी दत्ता । अत एव कृतकृत्योऽपि भगवान् जिनस्तीर्थ नमस्करोति । यदागमः--'तित्थपणामं काउ' मित्यादि गाथायुग्मं अनन्तरप्रदर्शितं बोध्यम् । किञ्च-तीर्थानभ्युपगमे तीर्थंकरस्याप्यनभ्युपगम एवेत्यत्र युक्तिं 'एएणं सव्वेसिं एगो तित्थंकरो'त्ति गाथाव्याख्यायां वक्ष्याम इति गाथार्थः ।४४। अथ प्रतिमाऽरेस्तीर्थप्रतिपक्षत्वसूचकं वचनमाह-- तेणं तित्थमतित्थं, अतित्थमवि भासइ सुतित्थंति । तमसच्चं जगपावा, अहिअं पावं जिणिंदुत्तं ॥४५॥ व्याख्या--येन कारणेन लौम्पकस्तीर्थप्रतिपक्षः, तेन कारणेन श्रीमहावीरव्यवस्थापितमच्छिन्नपरम्परागतं ( तीर्थ ) यत्तदोरध्याहारात् यत्तदतीर्थ-तीर्थ न भवतीत्येवं तीर्थस्यातीर्थतया भणनं, अतीर्थमपि-जिनप्रतिमारिसमुदायात्मकं, सुतीर्थ-शोभनं तीर्थमिति भाषते, एवमनृतमसत्यभाषणं जगत्पापादधिकं पापं-कारण कार्योपचारात् अधिकपापकारणं 'जिणिंदुत्तं' जिनेन्द्रेणोक्तम् । तथाहि--'उम्मग्गमग्गसंपट्टियाण साहूण गोयमा ! णणं । संसारो अ अणंतो, होइ अ सम्मग्गणासीणं' ॥१॥ [ गच्छाचारः ] ति वक्ष्यमाणमवसातव्यं यथा For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy