SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् । ३५ भवेत्तर्हि दिगम्बरादिमार्गा अपि तीर्थदृष्या न भवेयुः आगमविरुद्धप्रभृतेरपि तीर्थसम्मतत्वात् । तस्मात् प्रक्षेपमात्रेण यदि निर्युक्तेः परिहारस्तर्हि भगवत्यादेः सुतरामेव परिहारः कर्तव्यः, तत्रापि प्रक्षेपस्य प्राग् प्रदर्शितत्वात् । यदि च सत्यपि प्रक्षेपे भगवत्याद्यङ्गीकारस्तर्हि नियुक्त्यादेरपीति, उभयथापि साम्यात् । एवं उभयथाप्यस्माकं समीहितं सम्पन्नमित्यध्याहार्यमिति लौम्पकेन सह विवादस्य पर्यवसानादिति गाथार्थः ॥ ४१ ॥ अथैवमुक्तप्रकारेण सूत्रेऽपि प्रासादप्रतिमादीनां कारापकादेः सुलभत्वेऽपि श्रद्धानकारणमाहते अणुओगजुत्ते, सुत्ते परिमाणकारगप्पमुहा । सुलहा सद्दहणं पुण, दंसणमोहस्स खओवसमे || ४२ ॥ व्याख्या -- येन कारणेन प्रकृतसूत्रानुकूलग्रन्थान्तरवचनेन मिश्रितं प्रमाणं सदप्रमाणं न भवति, तेन कारणेनानुयोगयुक्तेसानुयोग नियुक्तियुक्ते प्रसंगानुप्रसंगागतानुयोगयुक्ते च सूत्रे 'णमो अरिहंताण' मितिपदमात्रलक्षणे प्रतिमाकारकप्रमुखाःप्रतिमा- प्रासाद-प्रतिष्ठा कारककारापकप्रमुखाः सुलभा :- सुखं लभ्याः । तथाहि - साधारणप्रासादप्रतिमादीनां कारापणादौ मुख्यवृत्त्याधिकारः चक्रवर्त्यादिसम्यग्दृशां राज्ञामेवेति पञ्चा - शकादौ भणितः, तत्कारितानां च प्रासादादीनां मात्सर्यादिदोषराहित्येन सर्वसम्मतत्वेन चोपादेयत्वात । तेनास्यामवसर्पियां प्रतिमादिकारापकः प्रथमः सम्यग्दृष्टी राजा भरतचक्रवर्ती । तेन कारितमष्टापदादौ जिनभवनादिकम् । तच्चोपोद्घात For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy