SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि मनोहरमिति । अल्पग्रन्थमहार्थताभणनेन नियुक्तिभाष्यचादयोऽभ्युपगन्तव्या इति दर्शितं । तेषामेव सूत्रार्थरूपत्वात्, अन्यथा महार्थताया असम्भवात् । क्वचिदन्येऽपि सूत्रगुणा यथा अप्पक्खर१ मसंदिद्धं २, सावं ३ विस्सओमुहं ४ । अत्थोभ ५ मणवज्ज ६, सुत्तं सवण्णभासि ॥ १ ॥ अल्पाक्षरं--मिताक्षरं सामायिकाभिधानवत्, असन्दिग्धंसैन्धवशब्दवत् लवणोदकाद्यनेकार्थसंशयकारि न भवति, सारवत्-बहुपर्यायं, विश्वतोमुखं-प्रतिसत्रमनुयोगचतुष्टयाभिधानात् , अस्तोभकं-वैहेहकारादिछिद्रपूरणस्तोभशून्यं स्तोभका-निपाताः, अनवद्य-अगर्दा अहिंसाद्यभिधायकं 'षट्शतानि नियुज्यन्ते, पशूनां मध्यमेहनि । अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिमि' ॥१॥ रित्यादिवचनवत् हिंसाद्यभिधायकं न भवति। एवविधं सत्रं सर्वज्ञभाषितं भवतीति गाथार्थः ॥ ५ ॥ ____ अथ सूत्रलक्षणे भणितान् द्वात्रिंशतो दोषानाहअलिअ १ मुवधायजणयं २, इच्चाइअसंधिदोसपज्जंता । बत्तीसा सुत्तदोसा, भणिआ णिज्जुत्तिअणुओगे ॥ ६ ॥ __व्याख्या--- अलीकोपघातजनकमित्यादिसन्धिदोषपर्यंताः द्वात्रिंशद्दोषाः सत्रस्य भणिताः नियुक्त्यनुयोगे-नियुक्तिव्याख्याने अर्थान्नमस्कारनियुक्तिव्याख्यानस्यादौ श्रीहरिभद्रसूरिभिरिति गम्यं, तथाहि-- अलिय १ मुवघायजणयं २, णिरत्थय ३ मवत्थयं ४ छलं ५ दुहिलं ६ । For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy