SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यान विधि ___ व्याख्या--अर्थ-जीवादिपदार्थ, कारणे कार्योपचारात् पदार्थविषयकज्ञानजनकत्वेन जीवाजीवादिपदार्थवाचकशब्दसमूह, भाषतेऽर्हन्-जिनेन्द्रः, तत् श्रुत्वा गणधराः-गौतमादयः सूत्रं---गद्यपद्यरचनात्मकं वक्ष्यमाणनिर्दोषत्वाद्यष्टगुणोपेतं, प्रश्नन्ति-निबध्नन्ति, कथं ? निपुणं यथा स्यात्तथा, सूत्ररचनायां नैपुण्यं तावत् सूत्रलक्षणोपेतसूत्ररचनेनैव स्यात् । तत्र सूत्रलक्षणमनन्तरं वक्ष्यते । अथ सूत्रलक्षणोपेतसूत्ररचनायाः प्रयोजनमाह'सासणस्स' इत्यादि। शासनस्य हितार्थ-सर्वसम्पत्प्राप्तिहेतव इत्यर्थः । अनेन भणनेन तीर्थव्यतिरिक्तानां लौकिकलोकोत्तरमिथ्यादृशां सम्यक्त्वानभिमुखानां हितं न भवत्येवेत्यर्थादापन्नमवसातव्यं, मिथ्यादृगभिमतमार्गाणां नाशकत्वात् । यदाऽऽगमः-- णिबुइपहसासणयं, जयइ सया सवभावदेसणयं । कुसमयमयणासणयं, जिणिंदवरवीरसासणयं ॥१॥ इति सूत्ररचनादिनादारभ्य तीर्थ यावत्सूत्रप्रवृत्तिरिति गाथार्थः ॥ २ ॥ ___ अथ गणधररचितेषु सूत्रेषु किं प्रथममध्ययनं १ तत्रापि किं प्रथमं पदमिति दर्शयन्नाह सव्वेसि सुत्ताणं, सामाइअसुत्तमाइमझयणं । तस्साइपयं तु णमो-अरिहंताणं समयसिद्धं ॥३॥ व्याख्या-सर्वेषां सूत्राणां-गणधररचितानां मध्ये प्रथममध्ययनं सामायिकसूत्रं 'सामाइअमाइअं सुअनाणं जाव बिंदुसाराओ'त्ति आवश्यकनियुक्तिवचनात् । तस्याप्याद्य पदं For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy