SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम् । ६१ किञ्चिद् बाधकम् । प्रज्ञापनावृत्त्यभिप्रायेण च युक्त्या तथा भणने न कश्चिद्दोषः, प्रकारान्तरेणाऽऽगमबाधाया अनपायात् । ननु भोः ! काश्चन युक्तयोऽसमीचीना अपि भवन्ति, तेन कथं तद्गम्ये वस्तुनि सम्यग् विश्वासः ? इति चेत् । मैवं तर्हि धूमादिहेतुगम्ये वह यादिवस्तुन्यपि सम्यग् विश्वासानुपपत्तिप्रसक्तेः, केषाञ्चिद्धेतूनामाप्यसमीचीनत्वात् । एवमागमगम्येऽपि वस्तुनि वक्तव्यं प्रसज्येत, आगमानामपि केषाञ्चिदसमीचीनत्वात् । तस्माद्यथा व्यभिचारादिदोषदुष्टहेतवोप्यहेतव एव, विवक्षितवस्त्वसाधकत्वात् । इतरे तु हेतव एव । यथा वा सर्वज्ञमूलकाऽऽगमवाधित आगमोप्यनागम एव, अयथार्थवस्तुवाचकत्वात् । इतरस्तु आगम एव, यथार्थवस्तुवाचकत्वात् । एवं युक्तिरपि बलवद्य क्तिबाधिता न युक्तिः, किन्त्वबाधितैव । तस्याश्चाबाधितत्वपरिज्ञानायानुमानप्रयोगो यथा-बादरनिगोदजीवा न व्यवहारिणः, तेषां सिद्धेभ्योऽनन्तगुणत्वात्, यथा सूक्ष्मनिगोदजीवाः। तथा अनादिमन्तः सक्ष्मा बादराश्च निगोदजीवा अव्यवहारिण एव, अन्यथा व्यवहारित्वभवनसिद्धिगमनयोरपर्यवसितत्वानुपपत्तेः । अपर्यवसितत्वं च सिझति जत्तिया किरे'त्यादिगाथोक्तक्रमणावसातव्यम् । तथा सांव्यवहारिका जीवाः सिध्यन्त्येव, आवलिकाऽसंख्येयभाग(सम) पुद्गलपरावर्त समयपरिमाणत्वेन परिमितत्यात्, व्यतिरेकव्याप्त्या सिद्धा निगोदजीवाश्च दृष्टान्ततयावसातव्याः । प्रज्ञापनावृत्तिसम्मतिखसातव्या । अयं भावः-आवलिकाऽसंख्येयभागपुद्गलपरा For Private And Personal Use Only
SR No.020783
Book TitleSutra Vyakhayan Vidhi Shatakam
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy