________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ तत्सब्रह्मणे नमः
श्रीमत्स्कन्दपुराणान्तर्गता
सूतसंहिता। श्रीमाधवाचार्यप्रणीततात्पर्यदीपिकाव्याख्यासमंता ।
शिवमाहात्म्यखण्डम् ।
प्रणमामि परं ब्रह्म यतो व्यावृत्तवृत्तयः । अविचौरसहं वस्तु विषयीकुर्वते धियः ॥ १॥ श्रीमत्काशीविलासाख्यक्रियाशक्तीशसेविना । श्रीमत्र्यम्बकपादाब्जसेवानिष्णातचेतसा ॥ २॥ वेदशास्त्रप्रतिष्ठात्रा श्रीमन्माधवमन्त्रिणा । तात्पर्यदीपिका सूतसंहिताया विधीयते ॥ ३॥ क्रियते तत्तत्मकरणतात्पर्यप्रथनपूर्वकं विशदम् ।
विषमपदवाक्यविवरणं मन्दधियामनुग्रहाय भक्त्या च ॥ ४॥ इह हि भगवान्बादरायणो लोकानुग्रहैकरसिकतया पेरशिवस्वरूपाविष्करणप्रधानां संहितामारभमाणो महतः पुरुषार्थस्य प्रत्यूहप्राचुर्यात्तनिवृत्तये शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं परशिवस्य प्रणिधानप्रणामलक्षणं महलाचरणं स्वयं कृतं शिष्यशिक्षायै ग्रन्थादावुपनिबध्नाति । ऐश्वरमितिश्लोकद्वयेन । द्विविधं हि पारमेश्वरं रूपम् । निष्कलं सकलं चेति । तत्र निष्कलं शुद्धम् । सकलं शंभुलिङ्गमूर्तिरूपं स्वप्रकाशाखण्डसचिदानन्दैकरसमद्वितीयं स्वप्रतिपत्तिफलं तत्मणिधानं प्रथमार्धेन । निष्कलस्वरूपं बोधानन्दमयं प्रणिधेयत्वेनोक्तं शैवागमे
" परैक्यपापकं ज्ञानं वच्मि सम्यग्घिताय वः।
चिदानन्दघनं पूर्ण प्रत्यग्ब्रह्मात्मना स्थितम् ।। १ ग. वृत्तिव। २ ङ, चारास । ३ घ. धिया । ४ ग. 'ण मुधिया। ५ ख. परमाश। ६ ग. 'धं पा।
For Private And Personal Use Only