SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे तदभिव्यक्तं शब्दब्रह्म कारणबिन्द्वात्मकं स्वप्रतिष्ठतया निस्पन्दं सत्परा वागित्युच्यते । तदेव नाभिपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्तं विमर्शरूपेण मनसा युक्तं सामान्यस्पन्दप्रकाशरूपिणी कार्यबिन्दुतत्त्वात्मिकाऽधिदैवमीश्वररूपा पश्यन्ती वागित्युच्यते । तदेव शब्दब्रह्म तेनैव वायुना हृदयपर्यन्तमभिव्यज्यमानं निश्चयात्मिकया बुद्ध्या युक्तं विशेषस्पन्दरूपनादबिन्दुमय्यधिदैवतं हिरण्यगर्भकपा मध्यमा वागित्युच्यते । तदेवाऽऽस्यपर्यन्तं तेनैव वायुना कण्ठादिस्थानेष्वभिव्यज्यमानमकारादिक्षकारान्तवर्णमालारूपं परश्रोत्रग्रहणयोग्यं बीजात्मकमधिदैवं विराडूपं वैखरी वागित्युच्यते । तदुक्तमाचार्यैः 'मूलाधारात्मथममुदितो यस्तु भावः पराख्यः पश्चात्पश्यन्त्यथ हृदयगो बुद्धियुमध्यमाख्यः। वके वैवर्यथ रुरुदिषोरस्य जन्तोः सुषुम्नां बद्धस्तस्माद्भवति पवनः प्रेरितो वर्णसंज्ञः' इति ।। तत्र वैखरी स्थूला मातृका सा प्रथमाधिकारिणः पूजोपकरणम् । मध्यमा सूक्ष्मा मातृका मध्यमाधिकारिणः पूजोपकरणम् । कारणकार्यबिन्द्वात्मिका परापश्यन्तीरूपा सूक्ष्मतरा मातृकोत्तमाधिकारिणः पूजोपकरणम् । मातृकात्रैविध्यं सर्वमन्त्रोपलक्षणम् | अतश्च सर्वमन्त्रा उक्तरीत्या स्थूलसूक्ष्मसूक्ष्मतररूपाः प्रथममध्यमोत्तमाधिकारिविषया इत्यर्थः । बहुवक्तव्यश्चायमर्थः । किचित्तु प्रकृतोपयोगादाविष्कृतमिति । गुरूपदेशत इति । उपदेशमन्तरेण शास्त्रैर्दुरधिगमत्वात्तथैव च फलातिशयत्वाचेत्यर्थः ॥ ९ ॥ अथाभ्यन्तरपूजायामधिकारो भवेद्यदि । यक्त्वा बायामिमां पूनामाश्रयेदपरां बुधः ॥१०॥ प्रथममभिधानाद्वाहपूजैव मुख्येतरा जघन्येतिनमनिरासाय मुलभत्वनिमित्तं बाहायाः प्रथममभिधानम् । उत्तमा वितरैवेत्याह-अथाभ्यन्तरेति । पूजास्वरूपस्य शास्त्रतः सम्यकपरिज्ञानं चित्तस्पैकाग्रता वाऽधिकारः॥ १० ॥ पूजा याऽभ्यन्तरा साऽपि द्विविधा परिकीर्तिता। साधारा च निराधारा निराधारा महत्तरा ॥११॥ मनसा परिकल्पितमूर्तावाधारे सच्चिदानन्दैकरसस्य शिवस्याऽऽवाहनाचा १ क. ग. घ. ङ. 'कृतादित्यर्थः । गु For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy