________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः ८ ]
www.kobatirth.org
सूतसंहिता ।
पुनरमला महेश्वरं प्रणम्य प्रियवदनं विनयेन संयुताः ॥ ३१ ॥
निरिक्षणार्हमिति । अनुग्राह्माणां देवानामपरोक्षज्ञानजननलक्षणफलाद्धेतोनृत्यमकरोदित्यन्वयः॥ ३० ॥ ३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
पप्रच्छुः परमेश्वरं पशुपतिं पार्श्वस्थिताम्बापतिं सर्वज्ञं सकलेश्वरं शशिधरं गङ्गावरं सुन्दरम् || विज्ञानं निखिलाः सुराः श्रुतिगतं संसारदुःखापहं निर्देदो भगवाञ्शवो गुरुगुरुः प्रोवाच कारुण्यतः॥३२॥ ईश्वर उवाच
४०
३१३
वक्ष्यामि परमं गुह्यं विज्ञानं सुरसत्तमाः ॥ युष्माकं श्रद्धया सार्धं शृणुध्वं तत्समाहिताः ॥ ३३ ॥
॥ ३२ ॥ ३३ ॥
आत्मा तावत्सुरा अस्ति स्वसंवेद्यो निरास्पदः ॥ आनन्दः पूर्णचैतन्यः सदा सोऽहं न संशयः ॥ ३४ ॥
देहेन्द्रियादिव्यतिरिक्तस्याऽऽत्मनः सद्भावे हि बहवो विप्रतिपन्नाः । अत एव नचिकेता यमं प्रति व्यतिरिक्तात्मसद्भावसंशयमेव प्रथममुदाजहार - "येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वयाऽहम्" इति । यमोऽपि तस्य दुरधिगमतामेव प्रथममाह - "देवैरत्रापि विचिकित्सितं पुरा नहि सुविज्ञेयमणुरेष धर्मः" इति । तदस्तित्वमेव च प्रथमतो ज्ञातव्यमित्याह तैत्तिरीयकश्रुतिः - " अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुः" इति । काठकेऽपि - " अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति" इति । अतः परमेश्वरो देवान्प्रत्यात्मनः सद्भावमेव तावदाह - आत्मा तावमुरा अस्तीति । अस्ति तावत्स्वतस्तस्य स्वरूपप्रमाणप्रकारविशेषा अप्यग्रत एवोच्यन्त इति तावच्छब्दार्थः । स्वमसाधारणं रूपमाह - निरास्पद इति । मायातत्कार्यजातं सकलमात्मास्पदम् । आत्मा तु " स भगवः कस्मिन्प्रतिष्ठित
१ च. 'रे ध' ।
For Private And Personal Use Only