________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेतस्य शुश्रूषणे नियं मतिं चक्रुः समाहिताः॥ ८४ ॥ इति श्रीस्कन्दपुराणे मृतसंहितायां मुक्तिखण्डे गुरूपसदनशुश्रुषामहिमकथनं नाम सप्त
मोऽध्यायः ॥७॥ न किंचिदिति । वक्तव्यस्य परिपूर्णत्वाद्वक्तव्यान्तराभावाच ॥७९॥८॥ ॥८१॥ ८२ ॥ ८३ ॥ ८४ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे गुरूपसदनशुश्रूषामहि
मकथनं नाम सप्तमोऽध्यायः ॥ ७ ॥
(अथाष्टमोऽध्यायः) मुनय ऊचुः
एवं महेश्वराज्ज्ञानं लब्ध्वा विष्णुः सनातनः ॥
ततः किमकरोविद्वान्वद कारुण्यविग्रह ॥१॥ मूत उवाच
शृणुध्वं तत्प्रवक्ष्यामि मुनयः संशितव्रताः ॥ महादेवं नमस्कृत्य विष्णुर्व्याघ्रपुरं गतः ॥२॥ लौकिकवैदिकैः स्तोत्रैः स्तुत्वाऽनुज्ञामवाप्य च ॥ आरुह्य गरुडं विप्रा अमरैरखिलैर्हरिः ॥३॥ स्तूयमानो महाविष्णुर्दृष्टो वैकुण्ठमाप सः॥ ततस्तं सर्वलोकशं शङ्खचक्रगदाधरम् ॥ ४॥ श्रीपतिं भूपति विप्राः सुरा ब्रह्मपुरोगमाः॥ प्रणम्य दण्डवद्रूमौ भक्त्या परमया सह ॥५॥
कृताञ्जलिपुटा भूत्वा पप्रच्छुः पङ्कजेक्षणम् ।। देवा ऊचु*भगवनीश्वरात्सर्व भवता श्रुतमच्युत ॥६॥
* अयं श्लोकः ( क ) पुस्तके नास्ति ।
For Private And Personal Use Only