________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः२]
सूतसंहिता। संमुद्भूल्य मुनिश्रेष्ठा आपादतलमस्तकम् । सितेन भस्मना तेन ब्रह्मभूतेन भावनात् ॥ १७ ॥ ललाटे हृदये कुक्षौ दोद्देदे च सुरोत्तमाः। त्रिपुण्ड्धारणं कृत्वा ब्रह्मविष्णुशिवात्मकम् ॥ १८॥ एवं कृत्वा व्रतं देवा अथर्वशिरसि स्थितम् ।
शान्ता दान्ता विरक्ताश्च त्यक्त्वा कर्माणिसुव्रताः॥१९॥ ब्रह्मभूतेनेति । ब्रह्मत्वेन भाव्यमानतया ब्रह्मीभूतेनेत्यर्थः ॥१७॥१८॥१९॥
वालाग्रमात्रं विश्वेशं जातवेदस्वरूपिणम् । हृत्पद्मकर्णिकामध्ये ध्यात्वा वेदविदां वराः ॥२०॥ सर्वज्ञं सर्वकर्तारं समस्ताधारमद्रुतम् ।।
प्रणवेनैव मन्त्रेण पूजयामासुरीश्वरम् ॥२१॥ वालाग्रमात्रमिति । अतिसूक्ष्मे दहराकाश उपलभ्यमानत्वादीशस्य वालाग्रमात्रत्वम् । जातमाविर्भूतं वेदो ज्ञानं तदेव स्वरूपं तद्वन्तम् । यद्वा चरमसाक्षा. कारवृत्त्यभिव्यक्तेः सकारणं संसारं दहतीति जातवेदा इत्यग्नित्वारोपः । श्रूयते हि-'वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातवेदं वरेण्यम्' इति ॥२०॥२१॥
अथ तेषां प्रसादार्थ पशूनां पतिरीश्वरः।। उमार्धविग्रहः श्रीमान्सोमार्धकृतशेखरः ॥ २२ ॥ नीलकण्ठो निराधारो निर्मलो निरुपप्लवः ।
ब्रह्मविष्णुमहेशानरुपास्यः परमेश्वरः ॥२३॥ अथ तेषामिति । प्रसादो नैर्मल्यं संस्काराविद्यानिवृत्तिस्तदर्थमित्यर्थः । ननु व्रतादिभ्यः पूर्वमपि देवैः शिवः साक्षात्कृतः सन्नुपदिदेशेत्युक्तम् । व्रतादिभिः को विशेषो जात इति । न । सकलं रूपं तत्र साक्षात्कृतम् । निष्कलं तु शिवेनोपदिष्टं सच्छब्दतः परोक्षतयैव ज्ञातम् । अधुना तु व्रतादिभिः प्रतिबन्धकदुरितप्रक्षयाद्यत्माक्परोक्षतया ज्ञातं तदेव निष्कलं तत्त्वं प्रत्यक्षतोऽपश्यनिति विशेषः । नन्वत्राप्युमार्धविग्रहः सोमार्धकृतशेखर इति सकलमेव रूपमुच्यते । न । यः पाग्दृष्टः सकल उमार्धविग्रहादिरूप इत्यनूद्य स एव निराधारत्वनिर्मलत्वादिना
१ घ. समुद्धृत्य
For Private And Personal Use Only