SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय: ५ ] सूतसंहिता | २८९ ष्टेति । तिस्रो ज्ञानस्यावस्थाः । एका तावद्दृश्यं सर्वं सत्यमित्यभिमानहेतुः । सा युक्तिशास्त्रजनिताद्विवेकज्ञानान्निवर्तते । तन्निवृत्तावपि यथापूर्वमभिनिवेशेन व्यवहारहेतुर्द्वितीया सा तत्त्वसाक्षात्कारानिवर्तते । तन्निवृत्तावपि संस्कारमात्रेण देहाभासजगदवभासहेतुस्तृतीया बाधितानुवृत्तिरित्युच्यते । सा चरम - साक्षात्कारेण निवर्तते । एतदवस्थात्रयं क्रमेणैव श्रूपते "तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः" इति । तत्र तृतीयकक्षायां स्थितस्यातिवर्णाश्रमस्य विदुषोऽपि शिष्यादिदर्शनादुपदेशसंभवाद्ग्रहनक्षत्र गत्यादिदर्शनान्निवृत्तोऽपि दिङ्मोहः संस्कारमात्राद्यथा भासत एवमिह संस्कारमात्राच्छिष्यादिभावादुपदेशोपपत्तिद्वैताभावस्य युक्तिशास्त्रानुभवैरव धृतत्वाद्विद्वत्ताऽपीत्यर्थः ॥ २८ ॥ इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ यथा स्वप्रप्रपञ्चोऽयं मयि मायाविजृम्भितः ॥ २९ ॥ तथा जाग्रत्प्रपञ्चोऽपि परमायाविजृम्भितः ॥ इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ ३०॥ ननु बाधितस्य कथमनुवृत्तिः । अनुवृत्तौ वा कथं बाधः । अभावबोधो हि बाधः । न च भावेन सहाभावो बोधार्ह इत्यत आह-यथा स्वप्रेति । बोधोतरकालं बाधितः स्वप्रप्रपञ्चः प्रागप्यसत्त्वेन प्रतीयमानोऽपि प्राक्काल संबन्धितया स्मृत्या यथा विषयीक्रियते । एवं वर्तमानप्रपञ्चो ऽसत्त्वेनानुभूयमानोऽपि संस्कारवशात्तत्कालसंवन्धितया किं न भासेतेत्यर्थः ॥ २९ ॥ ॥ ३० ॥ यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्शनात् ॥ सवर्णानाश्रमान्सर्वानतीत्य स्वात्मनि स्थितः ॥३१॥ योऽतीत्य स्वाश्रमान्वर्णानात्मन्येव स्थितः पुमान् ॥ सोऽतिवर्णाश्रमी प्रोक्तः सर्ववेदान्तवेदिभिः ॥ ३२ ॥ ननु वर्णाश्रमाचारातिक्रमश्चेदित्थमुत्कर्षकारणं जितं पाषण्डैरित्यत आहयस्य वर्णाश्रमेति । तत्त्वसाक्षात्कारेण विगलितदेहाद्यात्मत्वाभिमानो देहेन सहैव तद्धर्माणां वर्णाश्रमाणामतिक्रमादतिवर्णाश्रमी । ईदृक्परमकाष्ठामप्रा १ घ देहभा' । २ क. घ. त्र्येणै । ३६. मवि । ४ ख ग घ भानादु । ५ घ॰ "द्विदुषोऽपी । ३७ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy