________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ५] सूतसंहिवा।
२८५ तथैव ज्ञातव्यम् । श्रूयते हि-"आचार्यादैव विद्या विदिता साधिष्ठं प्रापत्" इति ॥२॥३॥
उत्तमो ब्राह्मणः प्रोक्तो मध्यमः क्षत्रियस्तथा ॥ अधमो वैश्य इत्युक्तः सर्वशास्त्रार्थवेदिभिः ॥४॥ अधमोऽच्युत वैश्यस्य शूद्रस्यापि गुरुभवेत् ॥ मध्यमो मध्यमस्यापि तथा वैश्यस्य केशव ॥ ५॥ शूद्रस्यापि गुरुः प्रोक्तः शुश्रूषोरात्मवेदिभिः ॥ उत्तमो ब्राह्मणस्यापि क्षत्रियस्य तथैव च ॥६॥ विशां शूद्रस्य शुश्रूषोर्गुरुरित्युच्यते मया ॥
शूद्राणां च तथा स्त्रीणां गुरुत्वं न कदाचन ॥ ७ ॥ यद्यपि वर्णानां ब्राह्मणो गुरुरिति क्वचिद्राह्मणस्यैव गुरुत्वं स्मर्यते तथाऽपि श्रुतिस्मृत्यन्तरपलोचनया समनन्तरवक्ष्यमाणविभागेनेतरेषामस्तीत्यभिधेत्योक्तम् । सर्वशास्त्रेति ॥ ४ ॥ ५॥ ६ ॥ ७ ॥
वैश्यस्यापि तथा राज्ञो विद्योत्कर्षबलेन च ॥ गुरुत्वं केचिदिच्छन्ति स्वोत्तमं प्रति केशव ॥ ८॥ उत्तमः पञ्चधा प्रोक्तो गुरुर्ब्रह्मात्मवेदिभिः ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ॥ ९॥ अतिवर्णाश्रमी चेति क्रमाच्छ्रेष्ठा विचक्षण ॥ अश्रेष्ठानां हरे श्रेष्ठा गुरवः परिकीर्तिताः ॥ १०॥ ब्रह्मचारी गृहस्थस्य वनस्थस्य यतेरपि ॥ विद्योत्कर्षबलेनैव गुरुर्भवति नान्यथा ॥ ११॥ गृहस्थोऽपि वनस्थस्य यतेरप्यम्बुजेक्षण ॥
विद्योत्कर्षबलेनैव गुरुर्भवति नान्यथा ॥ १२॥ । क. ग. घ. 'याऽधिगता । २ घ. मोऽप्युत । ३ ङ. रित्युक्तं तद्रा । ४ ६. 'न्ति मोत्त' । ५ ङ. 'स्थय ।
For Private And Personal Use Only