SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय: ३ ] सूतसंहिता । २६९ विष्ण्वादिप्रतीकादिष्वाह - यः पुमानिति । अनन्तरोक्तमिदं च निष्कामसकामविषयमिति द्रष्टव्यम् ॥ २७ ॥ भुक्त्वा भोगान्पुनर्ज्ञानं लब्ध्वा मुक्तो भवेन्नरः ॥ अथवा चित्तवैकल्याद्विष्णुसारूप्यमेव वा ॥ २८ ॥ विष्णुसामीप्यमन्यद्दा विष्णुसालोक्यमाप्नुयात् ॥ यस्तवापरमां मूर्तिमुपास्ते श्रद्धया नरः ॥ २९ ॥ तव सामीप्यमाप्नोति क्रमेणैव विमुच्यते ॥ अत्यन्तापरमां मूर्ति य उपास्ते तवाच्युत ॥ ३० ॥ स लब्ध्वा तव सालोक्यं पुनः सामीप्यमेव वां ॥ सारूप्यं वा पुनश्चित्तपरिपाकानुकूलतः ॥ ३१ ॥ मामवाप्य परिज्ञानं लब्ध्वा तेन प्रमुच्यते ॥ अथवा चित्तकालुष्याद्ब्रह्मादिभवनं गतः ॥ ३२ ॥ वैकल्पादिति । रागादियोगात् ॥ २८ ॥ २२ ॥ ३० ॥ ३१ ॥ ३२ ॥ तत्र भुक्त्वा महाभोगांन्कमाडूमौ विजायते ॥ यः पुमान्हृदये नित्यं ब्रह्माणं पङ्कजेक्षण ॥ ३३ ॥ अक्षमालाधरं शुभ्रं कमण्डलुकराम्बुजम् ॥ वरदाभयहस्तं च वाचा सहितमीश्वरम् ॥ ३४ ॥ उपास्ते ब्रह्मसारूप्यं स याति पुरुषोत्तम ॥ विशुद्धचित्तश्चेन्मर्त्यस्त्वामवाप्य ततः परम् ॥ ३५ ॥ प्राप्य मामद्वयं ज्ञानं लब्ध्वा तेन प्रमुच्यते ॥ अथवाऽपक्वचित्तश्वेद्ब्रह्मलोके महासुखम् ॥ ३६ ॥ भुक्त्वा भूमौ महाप्राज्ञः सदाचारवतां कुले || जायते पूर्वभावेन ब्रह्मध्यानरतो भवेत् ॥ ३७ ॥ ब्रह्मणः परमां मूर्ति य उपास्ते जनार्दन ॥ ब्रह्मसामीप्यमा प्रोति नात्र कार्या विचारणा ॥ ३८ ॥ १ ङ. 'प्यमुच्यते । २ ख. ग. च । ३ ङ. गान्कामाद्भूमौ प्रजा । ४ क. ख. घ. ङ. हाणोऽपरौं । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy