________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेइति श्रीसूतसंहितातात्पर्यदीपिकायां मुक्तिखण्डे मुक्तिभे
दकथनं नाम द्वितीयोऽध्यायः ॥ २॥
(अथ तृतीयोऽध्यायः)
ईश्वर उवाच
अथातः संप्रवक्ष्यामि मुक्त्युपायं समासतः॥
श्रद्धया सह भक्त्या च विद्धि पङ्कजलोचन ॥१॥ यत उपेयाभिधानानन्तरं तदुपायजिज्ञासाऽतस्तदनन्तरं स उच्यत इति प्रतिजानीते-अथात इति ॥ १ ॥
आत्मनः परमा मुक्तिर्ज्ञानादेव न कर्मणा ॥
ज्ञानं वेदान्तवाक्यानां महातात्पर्यनिर्णयात् ॥२॥ ज्ञानादेवेति । यद्यपि ज्ञानमेव मुक्तिसाधनं न कर्मादिकमिति प्रथमखण्डे सप्तमाध्यायेऽप्युक्तं तथाऽपि साधनभूतस्य तस्य ज्ञानस्य च स्वरूपं यथा च तस्य साधनत्वं स प्रकारः सैकलो वर्णनीय इत्ययमारम्भः । महातात्पर्येति । तत्त्वंपदार्थयोरेकैकस्य स्वरूपे "सत्यं ज्ञानमनन्तं ब्रह्म" "योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुषः" इत्यादेरवान्तरवाक्यस्य यत्तात्पर्य तदवान्तरतात्पर्यम् । शोधितपदार्थद्वयस्य तादात्म्येऽखण्डैकरसरूपे तत्त्वमस्यादिवाक्यस्य यत्तात्पर्य तन्महातात्पर्य तनिर्णीयते । येन वेदान्तमीमांसान्यायसंदर्भेण तनिर्णयस्तस्मादित्यर्थः ॥ २॥
उत्पन्नायां मनोवृत्तौ महत्यामम्बुजेक्षण ॥
अभिव्यक्तं भवेदेतद्ब्रह्मैवाऽऽत्मा विचारतः॥३॥ विषयस्याखण्डैकरसस्य परमपुरुषार्थत्वेन तद्विषया मनोवृत्तिर्महती विचारत उत्पन्नायामिति संबन्धः ॥ ३ ॥
अनेनैवाऽऽत्मनोऽज्ञानमात्मन्येव विलीयते ॥
विलीने स्वात्मनोऽज्ञाने देतं वस्तु विनश्यति ॥४॥ १ घ ङ, स्य ज्ञा। २ ग. स लोकव। ३ क ख. ग. घ. 'वाऽऽत्मवि। ४ क. ग. घ. द्वैतत ।
For Private And Personal Use Only