________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५
अध्यायः१९] सूतसंहिता।
ब्रह्मविष्णुमहेशानय॒यं ध्येयविवर्जितम् ॥
सोहमित्यादरेणैव ध्यायेद्योगी महेश्वरम् ॥ २१॥ स्वयं ब्रह्मादिभिर्येयं स्वात्मना ध्यातव्येनान्येन वर्जितम् ॥ २१ ॥
अयं मुक्तेमहामार्ग आगमान्तैकसंस्थितः ॥ अथवाऽहं मुनिश्रेष्ठ ब्रह्मा लोकपितामहः॥२२॥ इति स्मृत्वा वहन्मध्ये शिवं परमकारणम् ॥
साक्षादेदान्तसंवेद्यं साम्ब संसारभेषजम् ॥२३॥ ध्यानस्य मोक्षहेतुत्वे श्रुतिः प्रमाणमित्याह-आगमान्तेति । "ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात्" इति श्रूयते । विष्णुमूतिरिव स्वयं ब्रह्ममूर्तिर्भूत्वा स्वहृदये शिवं ध्यायेदित्याह-अथवाऽहमिति ॥ २२ ॥ २३ ॥
अहंबुद्ध्या विमुक्त्यर्थ ध्यायेदीशानमव्ययम् ।। अथवा सत्यमीशानं ज्ञानमानन्दमदयम् ॥२४॥ अनन्तममलं नित्यमादिमध्यान्तवर्जितम् ॥
तथाऽस्थूलमनाकाशमसंस्पृश्यमचक्षुषम् ॥२५॥ सर्वाधारत्वजगत्कारणत्वादिविशिष्टवाचकस्य स इति पदस्य बुद्धयादिविशिष्ट प्रत्यक्चैतन्यवाचकस्याहंपदस्य च सामानाधिकरण्ये सत्यखण्डैकरसे लक्ष्ये यत्र वाक्यार्थे पर्यवसानमतः सोहमिति महावाक्येनानुसंदध्यादिति । निष्कलविषयं ध्यानमाह-अथवा सत्यमिति ॥ २४ ॥ २५ ॥
न रसं न च गन्धाख्यमप्रमेयमनूपमम् ।।
सर्वाधारं जगद्रूपममूर्त मूर्तमव्ययम् ॥ २६ ॥ तत्राहंपदवाच्यस्य बुद्धयादिविशिष्टप्रत्यक्चैतन्यस्य सकललोकप्रत्यक्षत्वेऽपि स इत्येतत्पदवाच्यस्य परोक्षत्वेनामसिद्धत्वात्सर्वाधारमित्यादिना पदजातेन तनिर्देशः । ततः प्राक्तनेन च समित्यादिना लक्ष्यस्याखण्डैकरसप्रदर्शनं सोऽहमिति च लक्षणाबीजस्य सामानाधिकरण्यनिर्देश इति विभागः । तत्राद
१५ महाभाग आ ।
For Private And Personal Use Only