SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डे -- दन्तमूलात्तथा कण्ठे कण्ठादुरसि मारुतम् ॥ उरोदेशात्समाकृष्य नाभिकन्दे निरोधयेत् ॥ ६॥ नाभिकन्दात्समाकृष्य कुण्डल्यां तु निरोधयेत् ॥ कुण्डलीदेशतो विद्वान्मूलाधारे निरोधयेत् ॥ ७॥ तथाऽपाने कटिबंटे तथोरुदयमध्यमे ॥ तथा जानुदये जङ्घ पादाङ्गष्ठे निरोधयेत् ॥ ८॥ तानि धारणास्थानान्यवरोहेणाऽऽह-दन्तमूलादिति ॥ ६॥ ७ ॥ ८ ॥ प्रत्याहारोऽयमित्युक्तः प्रत्याहारपरैः पुरा ॥ एवमभ्यासयुक्तस्य पुरुषस्य महात्मनः ॥९॥ प्रत्याहारोऽयमिति । दन्तमूलमारभ्योक्तस्थानक्रमेण प्राणस्य पादाङ्गष्ठपत्याहरणं प्रत्याहारः ॥९॥ सर्वपापानि नश्यन्ति भवरोगाश्च सुव्रत ॥ अथवा तव वक्ष्यामि प्रत्याहारान्तरं मुने ॥१०॥ नाडीभ्यां वायुमाकृष्य निश्चलः स्वस्तिकासनः ॥ पूरयेदनिलं विद्वानापादतलमस्तकम् ॥ ११॥ पश्चात्पाददये तदन्मूलाधारे तथैव च ॥ नाभिकंदे च हृन्मध्ये कण्ठकूपे च तालुके ॥ १२॥ भ्रुवोर्मध्ये ललाटे च तथा मूर्धनि रोधयेत् ॥ अकारं च तथोकारं मकारं च तथैव च ॥ १३ ॥ नकारं च मकारं च शिकारं च वकारकम् ॥ यकारं च तथोङ्कारं जपेद्धद्धिमतां वर ॥१४॥ पवनस्य पादद्वयमारभ्याऽऽरोहरूपं प्रत्याहारान्तरमाह-अथवा तवेति । पादद्वयादिस्थाननवके पूर्वपूर्वस्थानजयानन्तरमुत्तरोत्तरस्थानक्रमेणाकारादिवर्णनवकेन सह चित्तस्य धारणमित्यर्थः । एष च पवनधारणरूपः प्रत्याहार आगमे दर्शितः १ क. स्व. ग. घ. धारयेत् । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy