SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१६] सूतसंहिता। २१७ ब्रह्महत्यादिभिः पापैर्मुच्यते मासमात्रतः ॥ षण्मासाभ्यासतो विप्रा वेदनेच्छामवाप्नुयात् ॥१६॥ शूद्राणामिति । वेदानधिकारात् ॥ १४ ॥ १५ ॥ १६ ॥ वत्सराद्ब्रह्म विहान्स्यात्तस्मानित्यं समभ्यसेत् ॥ योगाभ्यासरतो नित्यं स्वधर्मनिरतश्च यः ॥ १७ ॥ प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यति ॥ बाह्यादापूरणं वायोरुदरे पूरको हि सः॥ १८॥ संपूर्णकुम्भवहायोर्धारणं कुम्भको भवेत् ॥ बहिर्विरेचनं वायोरुदरानेचकः स्मृतः ॥ १९॥ प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः ॥ कम्पनं मध्यमं विद्यादुत्थानं चोत्तमं तथा ॥२०॥ पूर्व पूर्व प्रकुर्वीत यावदुत्तमसंभवः ॥ संभवत्युत्तमे प्राज्ञः प्राणायामे सुखी भवेत् ॥२१॥ योगाभ्यासेति । यः स्वधर्मनिरतः सन्योगाभ्यासरतो भवति तस्य प्राणापाम एवोक्तरीत्या ज्ञानद्वारा मोक्षसाधनमित्यर्थः ॥ १७ ॥ १८ ॥ १९ ॥ ॥ २० ॥ २१ ॥ प्राणायामेन चित्तं तु शुद्धं भवति सुव्रत ॥ चित्ते शुद्ध मनः साक्षात्प्रत्यग्ज्योतिष्ववस्थितम् ॥२२॥ प्राणश्चित्तेन संयुक्तः परमात्मनि तिष्ठति ॥ प्राणायामपरस्यास्य पुरुषस्य महात्मनः ॥२३॥ प्राणायामेन चित्तमिति । आह–पतञ्जलिः "ततः क्षीयते प्रकाशावरणं धारणामु योग्यता मनसः" इति ॥ २२ ॥ २३ ॥ देहश्चोत्तिष्ठते तेन किंचिज्ज्ञानादिभुक्तता ॥ रेचकं पूरकं मुक्त्वा कुम्भकं नित्यमभ्यसेत् ॥२४॥ १३. साध्यासतो विप्रवे। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy