________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः१४] सूतसंहिता।
२०९ रागाद्यपेतं दृदयं वागदुष्टाऽनृतादिना ॥ हिंसाविरहितः काय एतच्चेश्वरपूजनम् ॥ ११॥ ब्रह्माणमिति । वैश्यैर्ब्रह्माणं क्षत्रियैर्विष्णुम् । वाडवा ब्राह्मणास्तैरीशानं स्वीकृत्य यदर्चनं तदित्यर्थः ॥ १० ॥ ११ ॥
सत्यं ज्ञानमनन्तं च परानन्दं ध्रुवं परम् ॥
प्रत्यगित्यवगत्यन्तं वेदान्तश्रवणं बुधाः ॥ १२ ॥ प्रत्यगिति । अवगतिरापरोक्ष्यम् ॥ १२ ॥ सिद्धान्तश्रवणं प्राहुर्दिजानां मुनिसत्तम ॥ शूद्राणां च विरक्तानां तथा स्त्रीणां महामुने ॥ १३॥ सिद्धान्तश्रवणं प्रोक्तं पुराणश्रवणं बुधैः ॥ वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् ॥ १४ ॥ तस्मिन्भवति या लज्जा ह्रीस्तु सैवेति कीर्तिता ॥
वैदिकेषु हि सर्वेषु श्रद्धया सा मतिर्भवेत् ॥ १५॥ तथा स्त्रीणामिति । त्रैवर्णिकस्त्रीणां तु श्रौते विकल्प उक्तः ॥१३॥१४॥१५॥
गुरुणा चोपदिष्टोऽपि तन्त्रसंबन्धवर्जितः ॥ वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः ॥१६॥ कल्पे सूत्रेऽथ वा वेदे धर्मशास्त्रे पुराणके ॥
इतिहासेऽनुवृत्तिर्या स जपः प्रोच्यते मया ॥ १७ ॥ उपदिष्टोऽपीति । न पुनः पुस्तकपाठादिमात्रेण ज्ञात इत्यर्थः । तन्त्रसंबन्धेति । कापालं नाकुलं वाममित्यादिवेदविरुद्धागमसंस्पर्शरहित इत्यर्थः ॥१६॥१७॥
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ॥
सर्वास्ता निष्फलाःप्रेत्य तमोनिष्ठा हि ताः स्मृताः॥१८ वेदविरुद्धतसंबन्धत्यागे कारणमाह-या वेदबाह्या इति ॥ १८ ॥
१ घ. ङ. "दभिः ।। हिं। २ ग. जपे । ३ घ. से च वृ'। ङ. से निवृ। ४ इ. 'अप्रदन्ध'।
२७
For Private And Personal Use Only