________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्याय: १]
सूतसंहिता ।
हा देववैभवमिति । " अह हेत्पद्धते खेदें" इत्यभिधानम् । अन्यत्रादृष्टत्वमदुतस्यालंकारो न दूषणमित्यर्थः ॥ ३९ ॥
ब्रह्माणं मुनयः पूर्व सृष्ट्वा तस्मै महेश्वरः ।
दत्तवानखिलान्वेदानात्मन्येव स्थितानिमान् ॥ ४० ॥ नन्वपौरुषेया वेदाः 'वाचा विरूप नित्यया' 'अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा' इति श्रुतिस्मृती इति ते कथं निर्मिताः कश्चैता एतावती ग्रहीष्यति यस्य कृते निमपेरन्नित्यत आह-- ब्रह्माणं मुनयः पूर्वमिति । स्वयमेव लीलया सकलवेदग्रहणसमर्थं ब्रह्माणं निर्माय स्वात्मनि नित्यमवस्थिता एव वेदास्तस्मै दत्ता इत्यर्थः । न च नित्यसिद्धवेदसमर्पणे शिवस्योपाध्यायतुल्यता । उपाध्यायो हि स्वयमन्यतो लब्ध्वा शिष्यानध्यापयति | शिवस्तु नैवमन्यतोऽधीते स्वात्मनि नित्यमवस्थितानामेव तेषां ब्रह्मद्वारा संप्रदायं प्रवर्तयति । “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै " इति स्थितानामेव वेदानां प्रापणश्रुतेः ॥ ४० ॥
१५
ब्रह्मा सर्वजगत्कर्ता शिवस्य परमात्मनः ।
प्रसादादेव रूद्रस्य स्मृतीः सस्मार सुव्रताः ॥ ४१ ॥ स्मृतिपुराणादीनामपि तर्हि शिवेनैव प्रापणं चेद्वेदसाम्यं न वेदप्रामाण्यं तत्राऽऽह -- ब्रह्मा सर्वजगत्कर्तेति । वेदे हि द्वौ भागौ कर्मभागो ज्ञानभागश्चेति । आद्यस्पार्थः स्मृतिमुखेन ब्रह्मणा शिवाज्ञयैव व्याख्यातः । द्वितीयस्य तु विष्णुना व्यासरूपेणावतीर्यं पुराणमुखेनेति स्मृतिपुराणानां वेदमूलता न स्वातत्र्यमित्यर्थः । यद्यपि स्मृतिष्वपि विद्यानिरूपणमस्ति तथाऽपि तत्मासङ्गिकं द्रव्यशुद्धिप्रसङ्गेन हि कथितम् -
"क्षेत्रज्ञ स्पेश्वरज्ञानाद्विशुद्धिः परमा मता" इति ।
For Private And Personal Use Only
चतुर्थाश्रमधर्मप्रसङ्गेन चौपनिषदतत्त्वनिरूपणं कृतमिति । पुराणानां तु विद्याप्राधान्यं प्रासङ्गिकं कर्मनिरूपणम् । पुराणेषु हि जगदुत्पत्तिस्थितिलयकारणत्वं शिवस्पाभिप्रेत्योत्पत्तिकारणत्वं सर्गेणोक्तम् । लपकारणत्वं च मतिसर्गेण | स्थितिकारणत्वं च वंशमन्वन्तर वंशानुचरितनिरूपणेन । तत्प्रसङ्गादाश्रमधर्मा आगता इति । अत एव धर्मविषये स्मृतिपुराणविप्रतिपत्तौ स्मृतीनां प्राबल्यं तत्र तासां तात्पर्यत इति तत्वज्ञानविषये पुराणप्राबल्पमिति विवेकः ॥ ४१ ॥
१६. निर्मायेरन् ।