________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२००
तात्पर्य दीपिका समेता
[२ज्ञानयोगखण्डे
विरजानलेजं भस्म गृहीत्वा वाऽग्निहोत्रजम् ॥ अग्निरित्यादिभिर्मन्त्रैर्जाबालैः सप्तभिर्मुने ॥ ६ ॥ षडभिर्वाऽऽथर्वणैर्मन्त्रैः समुद्भूल्य ततः परम् ॥ तिर्यक्त्रपुण्डमुरसा शिरसा बाहुमूलतः ॥ ७ ॥ धारयेत्परया भक्त्या देवदेवं प्रणम्य च ॥ सरस्वतीं सुसंपूज्य स्कन्दं विघ्नेश्वरं गुरुम् ॥ ८ ॥ चन्द्रमादित्यमनिलं तथैवात्रिं महामुने ॥ आरुह्य चाऽऽसनं पश्चात्प्राङ्मुखोदङ्मुखोऽपि वा ॥९॥ पावनत्वाय वैदिकाधिष्ठितं देशमाह-वेदघोषेति । नतु योगाभ्याससमये वेदघोषापेक्षा |
Acharya Shri Kailassagarsuri Gyanmandir
"समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः । मनोनुकले नतु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्" इति श्वेताश्वतरश्रुतेः ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥
समग्रीवशिरः कायः संवृतास्यः सुनिश्चलः ॥ नासाग्रे शशभृद्विम्बं बिन्दुमच्च तुरीयकम् ॥ १० ॥ स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ॥ इडया प्राणमाकृष्य पूरयित्वोदरस्थितम् ॥ ११ ॥
समग्रीवेति । तथाच गीतासु -
" समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ प्रशान्तात्मा विगतभर्ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः" इति । नासाग्र इति । नासाग्रे चन्द्रबिम्बं तत्र यत्तुरीयकं यकाराच्चतुर्थं वकारं सबिन्दुकममृतस्त्राविणं स्मरनेत्राभ्यामपि तमेव देशं पश्यन्नित्यर्थः । तदुक्तमागमे
ग. 'ठक भी २ङ, विश्वेश्वरं ।
For Private And Personal Use Only