SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः११] सूतसंहिता। नागादिवायवः पञ्च वगस्थ्यादिषु संस्थिताः ॥ उद्गारादिगुणः प्रोक्तो नागाख्यस्य बृहस्पते ॥ ३२॥ निमीलनादि कूर्मस्य क्षुतं तु कृकरस्य च ॥ देवदत्तस्य कर्म स्यात्तन्द्रीकर्म महामुने ॥ ३३ ॥ धनंजयस्य शोकादि कर्म प्रोक्तं बृहस्पते ॥ निःश्वासोच्छासकासादि प्राणकर्म बृहस्पते ॥ ३४ ॥ अपानाख्यस्य वायोस्तु विण्मूत्रादिविसर्जनम् ॥ समानः सर्वसामीप्यं करोति मुनिसत्तम ॥ ३५॥ नागादिवायव इति । नागादीनां बाह्यकोशवर्तित्वं प्राणादीनामन्तःकोशवतित्वं चोक्तमन्यत्र "एते प्राणादयः पञ्च मध्यकोशेषु संस्थिताः । स्वगादिपञ्चकोशस्था नागाद्या बाह्यवायवः" इति ॥ ३२ ॥ ॥ ३३ ॥ ३४ ॥ ३५॥ उदान ऊर्ध्वगमनं करोयेव न संशयः ॥ व्यानो विवादकृत्प्रोक्तो मुने वेदान्तवेदिभिः॥ ३६॥ विवादकृदिति । विवादः प्राणापानयोः परस्परप्रतिबन्धादुमयाभावः । तदुक्तं छान्दोग्ये---"यद्वै प्राणिति स प्राणो यदपानिति सोऽपानोऽथ यः प्राणापानयोः संधिः स व्यानः, यो व्यानः सो वातस्मादप्राणन्ननपानन्वाचमभिव्याहरति' इत्यादि ॥ ३६॥ सुषुम्नायाः शिवो देव इडाया देवता हरिः॥ पिङ्गलाया विरिञ्चिः स्यात्सरस्वत्या विराण्मुने ॥३७॥ पूषा दिग्देवता प्रोक्ता वारुणी वायुदेवता ॥ हस्तिजिह्वाभिधायास्तु वरुणो देवता भवेत् ॥ ३८॥ यशस्विन्या मुनिश्रेष्ठ भगवान्भास्करो मुने ॥ अलम्बुषाभिमान्यात्मा वरुणः परिकीर्तितः ॥ ३९ ॥ १ क. ख. ग. स । २ घ, मुने । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy