________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६२
तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेसुवर्णस्तेयकत्साक्षाद्राजानमभिगम्य तु ॥ स्वकर्म ख्यापयन्बूयान्मां भवाननुशास्त्विति ॥१२॥ आयसं मुसलं तीक्ष्णं गृहीत्वा स्वयमेव तु॥
हन्यात्सकृत्प्रयोगेण राजा तं पुरुषाधमम् ॥१३॥ शवशिरोध्वजमिति । स्मर्यते हि-- 'शिरःकपाली ध्वजवान्भिक्षाशी कर्म चोदयन्' इति ॥५॥६॥७॥ ॥ ८॥९॥ १० ॥ ११ ॥ १२ ॥ १३ ॥
मुच्यते स्तेयदोषेण नास्ति राज्ञोऽपि पातकम् ॥ अवगृहस्त्रियं तप्तामयसा निर्मितां नरः ॥ १४ ॥ स्वयं वा शिश्रवृषणावुत्पाव्याऽऽधाय चानलो॥
दक्षिणां दिशमागच्छेद्यावत्प्राणविमोचनम् ॥ १५॥ अवगृहेदिति । आश्लिषेत् ॥ १४ ॥ १५ ॥
अनेन विधिना युक्तो मुच्यते गुरुतल्पगः ॥ तप्तकृच्छ्रे चरेत्तप्तः संवत्सरमतन्द्रितः॥ १६ ॥ महापातकिनां नृणां संसर्गात्स विमुच्यते ॥
मातरं मातृसदृशी भागिनेयीं तथैव च ॥ १७॥ सप्तकृच्छमिति । तप्तकृच्छ्रलक्षणमुक्तं यमेन
'यहमुष्णं पिबेदम्भख्यहमुष्णं पयः पिबेत् । व्यहमुष्णं पिबेत्सर्पिर्वायुभक्षः परं व्यहम् ॥
तप्तकृच्छं विजानीयाच्छीते शीतमुदाहृतम्' इति ।। अम्भःप्रभृतीनां परिमाणमुक्तं पराशरेण
'षट्पलं तु पिबेदम्भत्रिपलं तु पयः पिबेत् ॥
पलमेकं पिबेत्सर्पिस्तप्तकृच्छू विधीयते' इति ॥ १६ ॥ १७ ॥ मातृष्वसारमारुह्य कुर्यात्कृच्छातिकृच्छ्रकौ ॥
चान्द्रायणं च कुर्वीत तत्पाविनिवृत्तये ॥ १८॥ कृच्छातिकृच्छ्रकाविति । द्विरावृत्तं कृच्छातिकृच्छ्रकं कुर्यात् । तल्लक्षणमुक्तं याज्ञवल्क्येन
, ङ, पस्य नि।
For Private And Personal Use Only