________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
तात्पर्यदीपिकासमेता- रज्ञानयोगखण्डेसंध्याकालेषु सावित्री जपन्कर्म समाचरेत् ॥ हंसः कमण्डलुं शिक्यं भिक्षापात्रं तथैव च ॥ ११॥ कन्यां कौपीनमाच्छाद्यमङ्गवस्त्रं बहिःपटम् ॥ एकं तु वैणवं दण्डं धारयनित्यमादराव ॥ १२॥ त्रिपुण्ड्रोलनं कुर्याच्छिवलिङ्गं समर्चयेत् ॥
अष्टग्रासं सकृनित्यमनीयात्सशिखं भवेत् ॥ १३ ॥ संध्याकालेषु सावित्रीजपमध्यात्मचिन्तनम् ॥
तीर्थसेवां तथा कृच्छं तथा चान्द्रायणादिकम् ॥१४॥ हंसस्य वृत्तिमाह-हंसः कमण्डलुमिति ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥
कुर्वन्यामैकरात्रेण न्यायेनैव समाचरेत् ॥ परहंसस्त्रिदण्डं च रज्जु गोवालनिर्मितम् ॥ १५॥ शिक्यं जलपवित्रं च पवित्रं च कमण्डलुम् ॥ पक्षिणीमजिनं सूची मृत्खनित्री कृपाणिकाम् ॥१६॥ शिखां यज्ञोपवीतं च नित्यकर्म परित्यजेत् ॥ कौपीनाच्छादनं वस्त्रं कन्यां शीतनिवारिकाम् ॥१७॥ योगपढें बहिर्वस्त्रं पादुकां छत्रमद्रुतम् ॥
अक्षमालां च गृह्णीयादैणवं दण्डमत्रणम् ॥ १८॥ परमहंसस्याऽऽह-परेहंसस्त्रिदण्डमिति ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥
आग्निरियादिभिर्मन्त्रैः कुर्यादुद्भूलनं मुदा ॥
ओमोमिति च त्रिः प्रोच्य परहंसस्त्रिपुण्ड्रकम् ॥१९॥ ओमोमिति | अजपासहितेन प्रणवेन त्रिरुक्तेन त्रिपुण्ड्रं कुर्यात् ॥ १९ ॥
मृत्पात्रं कांस्यपात्रं वा दारुपात्रं च वैणवम् ॥
पाणिपात्रं च गृह्णीयादाचम्यैव तथोदरम् ॥२०॥ हेयोपादेपविभागविवक्षया प्रथमं साधारण्येन संभवत्पात्रजातमुद्दिशति
, ड, पिवेत् । २ क. ख. घ. 'रमहं। ३ . भवात्पा।
For Private And Personal Use Only