________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भध्यायः१]
सूतसंहिता। ततो वासिष्ठलैङ्गाख्यं प्रोक्तं माहेश्वरं परम् । ततः साम्बपुराणाख्यं ततः सौरं महाद्रुतम् ॥ १७ ॥ पाराशरं ततः प्रोक्तं मारीचाख्यं ततः परम् ।
भार्गवाख्यं ततः प्रोक्तं सर्वधर्मार्थसाधकम् ॥ १८॥ उपपुराणान्यष्टादशानुक्रामति-आद्यं सनत्कुमारेण प्रोक्तमित्यादिना ॥ ॥ १३ ॥ १४ ॥ १५॥ १६ ॥ १७ ॥ १८ ॥
लक्षं तु ग्रन्थसंख्याभिः सर्वविज्ञानसागरम् । स्कान्दमद्याभिवक्ष्यामि पुराणं श्रुतिसंमितम् ॥ १९॥ पड्विधं संहिताभेदैः पञ्चाशत्खण्डमण्डितम् ।
आद्या सनत्कुमारोक्ता द्वितीया सूतसंहिता ॥२०॥ अथेदानी विवक्षितां सूतसंहितामवतारयितुमनुक्रान्तानां पुराणानां मध्ये त्रयोदशस्य स्कान्दपुराणस्य संहितापदविभागमाह-स्कान्दमद्याभिवक्ष्यामीति ॥ १९ ॥ २०॥
तृतीया शांकरी विप्राश्चतुर्थी वैष्णवी मता। तत्परा संहिता ब्राह्मी सौराऽन्त्या संहिता मता ॥२१॥ ग्रन्थतः पञ्चपञ्चाशत्सहस्रेणोपलक्षिता। आद्या तु संहिता विप्रा द्वितीया षट्सहस्रिका ॥२२॥ तृतीया ग्रन्थतस्त्रिंशत्सहस्रेणोपलक्षिता । तुरीया संहिता पञ्चसहस्रेणाभिनिर्मिता ॥ २३ ॥ ततोऽन्या त्रिसहस्रण ग्रन्थेनैव विनिर्मिता ।
अन्या सहस्रतः सृष्टा ग्रन्थतः पण्डितोत्तमाः॥२४॥ सौराऽन्त्येति । सूरसंबन्धि सौरम् । तदस्यामस्तीति सौरा 'अर्शआदिभ्योऽन्' इत्यजन्तं मत्वर्थीयान्ताट्टाप् । सूरस्येयं संहितेति व्युत्पत्तौ 'तस्येदम्' इत्यणन्तान्डीपा भवितव्यमिति ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥
१ ग. ७. लेणोपलक्षिता।
For Private And Personal Use Only