________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे देवतीर्थमिति ख्यातं क्षीरकुण्डस्य पश्चिमे । देवराजः पुरा यत्र स्नात्वा पर्वणि पर्वणि ॥ ९६ ॥ वत्सरान्ते महादेवं वल्मीकावासमादराव । प्रदक्षिणत्रयं कृत्वा प्रणम्य भुवि दण्डवत् ॥ ९७ ॥ विसृज्य देवराजत्वं विमुक्तः कर्मबन्धनात् । यत्र स्नात्वोत्तरे मर्त्यः श्रद्धया मासि फाल्गुने ॥१८॥ प्रदक्षिणत्रयं कृत्वा वल्मीकावासमीश्वरम् । ददाति धनमल्पं वा मुच्यते भवबन्धनात् ॥ ९९ ॥ अर्कवारे यथायां कृष्णाष्टम्यां विशेषतः । यःस्नाति देवतीर्थेऽस्मिन्स याति परमां गतिम्॥१०॥ सेतुमध्ये महातीर्थ गन्धमादनपर्वतम् । यत्र स्नात्वा महाभक्त्या राघवः सह सीतया॥१०१॥ लक्ष्मणेन तथैवान्यैः सुग्रीवप्रमुखैर्वरैः। मुनिभिर्दैवगन्धर्वैर्यक्षविद्याधरादिभिः ॥२॥ राक्षसेशवधोत्पन्नां ब्रह्महत्यां विहाय सः। प्रतिष्ठाप्य महादेवं श्रीमद्रामेश्वराभिधम् ॥ ३ ॥ विदित्वा तीर्थमाहात्म्यं दत्तवान्धनमुत्तमम् ।
यत्र स्नाखा व्यतीपाते ग्रहणे चन्द्रसूर्ययोः ॥४॥ उत्तरे दिन इति । विशाखे सूर्यवारे चैतिवड्याख्येयम् ॥ ९४ ॥ २५ ॥ ॥ १६ ॥ १७ ॥ २८ ॥ ९९ ॥ १०० ॥ १०१ ॥ १०२ ॥ १०३ ॥ १०४ ॥
अर्कवारे भृगोरे पर्वण्याीदिने तथा । विषुवायनकालेषु षडशीतिमुखे तथा ॥५॥ अर्घोदयेऽथवा विप्राः सुमुहूर्तेषु चास्तिकाः । यथाशक्ति धनं दत्त्वा दृष्ट्वा रामेश्वरं शिवम् ॥ ६॥
For Private And Personal Use Only