SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११८ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे दस्योर्जातो मुनिश्रेष्ठा मालाकारः समाख्यया । प्रतिलोमनिषादेन कैवर्ताख्यो विजायते ॥ ४६॥ तिलकारिस्त्रियां जात आयोगेन द्विजोत्तमाः। नीलादिवर्णविक्रेता नाना वेदार्थवित्तमाः ॥४७॥ कारौ चारुसमाख्यायां निषादेन मुनीश्वराः । चर्भजीवी समुत्पन्नः सर्वविज्ञानसागराः ॥४८॥ मातङ्गादिति । वैश्यायामित्यनुवर्तते ॥ ४५ ॥ ४६॥ ४७ ॥ ४८ ॥ युष्माकं संग्रहेणैव मयोक्तो जातिनिर्णयः । यथाऽगस्त्याच्छूतः पूर्व सद्गुरोरनुशासनात् ॥ ४९ ॥ ईदृशानामनुक्तानामनन्तानां भेदानां संभवादाह-संग्रहेणेति ॥ ४९ ।। खजात्युक्तं यथाशक्ति कुरुते कर्म यः पुमान् । मुक्तिस्तस्यैव संसारादिति वेदानुशासनम् ॥५०॥ जातिनिर्णयप्रयोजनमाह-स्वजात्युक्तमिति । वेदानुशासनमिति । 'धर्मों विश्वस्य जगतः प्रतिष्ठा धर्मे सर्वं प्रतिष्ठितम्' इति हि वेदवाक्येऽनुशिष्यते । स्वजात्युक्त एव हि धर्मः ॥ ५० ॥ सर्वेषां जन्मना जाति न्यथा कर्मकोटिभिः। पश्वादीनां यथा जातिर्जन्मनैव न चान्यथा ॥ ५१ ॥ जन्मनिबन्धना एता जातयः सन्तु कर्मनिबन्धनास्तु कीदृश्य इत्याशय ता न संभवन्त्येवेत्याह-सर्वेषामिति । तत्र दृष्टान्तमाह पश्चादीनामिति ॥५१॥ साऽपि स्थूलस्य देहस्य भौतिकस्य न चाऽऽत्मनः । __ तथाऽपि देहेऽहंमानादात्मा विप्रादिसंज्ञितः ॥ ५२ ॥ पदि जन्मनिबन्धनैव जातिस्तर्हि जन्मरहितस्याऽऽत्मनः सा कथं भवेतदभावे वा तस्य कथं जातिपयुक्तधर्मेषु नियोग इत्यत आह–साऽपि स्थूलस्येति । सूक्ष्मभूतकार्यस्य लिङ्गशरीरस्याप्यात्मवजात्यभावाभिप्रायेण स्थूलस्येत्युक्तम् । जातिमद्देहादितादात्म्याध्यासादजातेरप्यात्मनो विप्रत्वादिव्यवहार इत्यर्थः ॥ १२ ॥ ग. ड. अयोगेन । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy