SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे मुनीनां यथोपन्यस्तः संशयस्तनिरासाय परमेश्वरप्रणिधानं च श्वेताश्वतरोपनिषदि श्रूयते'कालः स्वभावो नियतिर्यदृच्छया भूतानि योनिः पुरुष' इति चिन्त्यम् । 'संयोग एषां न त्वात्मभावादात्माऽप्यनीशः मुखदुःखहेतोः । ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्' इति ॥ ३३ ।। ३४ ॥ ३५ ॥ ३६ ॥ ३७ ॥ ३८ ॥ ३९ ॥ ४० ॥ इति श्रीमत्काशीविलास क्रियाशक्तिपरमभक्त श्रीमत्र्यम्बकपादाब्जसेवापरायणेनोपनिषन्मार्गप्रवर्तकेन माधवाचार्येण विरचितायां श्रीसूतसंहितातात्पर्यदीपिकायां शिवमाहात्म्यखण्डे हिरण्यगर्भादिविशेष सृष्टि मैकादशोऽध्यायः ॥ ११ ॥ हादशोऽध्यायः। नैमिषीया ऊचुःभगवन्सर्वशास्त्रार्थपरिज्ञानवतां वर। जातिनिर्णयमस्माकं वद वैदैकदर्शितम्॥ १॥ प्राणिनां कर्मपाकेन मया चेत्युक्तत्वात्कर्मणां च जातिभेदेन व्यवस्थितत्वाजातिभेदं जिज्ञासमाना मुनयः पृच्छन्ति । भगवन्निति । वेदैकदर्शितमिति । स्मृतिपुराणानामपि मूलभूतवेदानुमापनेनैव धर्मे प्रमाणत्वात् । वेदैकप्रमाणको धर्म इति जैमिनिरप्याह-चोदनालक्षणोऽर्थो धर्म इति ॥ १॥ मूत उवाच-- वक्ष्ये लोकोपकाराय जातिनिर्णयमादरात् । अगस्त्योऽपि पुराऽपृच्छत्प्रणम्य वृषवाहनम् ॥२॥ अगस्त्योऽपीति । स शिवं यदपृच्छत्तस्मै शिवेनोक्तं तदहं वो वच्मीत्यर्थः ॥२॥ १ ख. 'मानेनैव। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy