SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अध्यायः१०] सूतसंहिता। १०१ समानाच वसिष्ठाख्यं संकल्पाद्धर्मसंज्ञितम् । एवमेतानजः श्रीमानसृजत्साधकोत्तमान् ॥४४॥ तानेव साधकानाह-मरीचि चेत्यादि ॥ ४२ ॥ ४३ ॥ ४४ ॥ पुनस्तदाज्ञया विप्रा धर्मः संकल्पसंज्ञितः । मानवं रूपमापन्नः साधकैस्तु प्रवर्तितः ॥ ४५ ॥ साधकैर्मरीच्यादिवसिष्ठान्तैर्नवभिः प्रवर्तितो धर्म एव मनुरूपतां प्राप्त इत्या ह-पुनरिति ॥ ४५ ॥ ततश्चतुर्मुखः स्वस्य जघनादसुरान्दिजाः। सृष्ट्वा मूर्ति पुनस्स्यक्त्वा शरीरान्तरमाप्तवान् ॥ ४६॥ ततश्चतुर्मुख इति । असुरान्सृष्ट्वा ब्रह्मणा परित्यक्तं तच्छरीरं राव्यात्मकमासीत् । तथाहि तैत्तिरीयके 'इदं वा अग्रे नैव किंचनाऽऽसीत्' इति ब्रह्मणोऽ. हरादौ लोकत्रयसृष्टिं प्रकम्योक्तम् ' स जघनादसुरानसृजत तेभ्यो मृन्मये पात्रेऽन्नमदुहद्याऽस्य सा तनूरासीत्तामपाहत सा तमिस्राऽभवत् ' इति ॥४६॥ सा तनुर्ब्रह्मणा त्यक्ता रात्रिरूपाऽभवन्नृणाम् । पुनर्ब्रह्माऽऽप्तदेहस्य मुखात्सत्त्वविजृम्भिताव ॥४७॥ सृष्ट्वा सुरानजस्तच्च शरीरं त्यक्तवान्पुनः। तत्पुनर्वेदविच्छ्रेष्ठा अभून्नृणां दिनं शुभम् ॥४८॥ मुखात्सत्त्वविजृम्भितादिति । ऊर्ध्वस्रोतसो हि सात्त्विका इत्युक्तम् । श्रूयते हि- स मुखाद्देवानसृजत तेभ्यो हरिते पात्रे सोममदुहत् । याऽस्य सा तनूरासीचामपाहत तदहरभवदिति ।। ४७ ॥ ४८ ॥ पुनश्च सत्त्वसंयुक्तं शरीरं भगवानजः । आस्थाय ब्रह्मविन्मुख्याः पितॄन्सृष्ट्वा विहाय तत्॥४९॥ शरीरान्तरमापनश्चतुर्वक्रः शिवाज्ञया । स्यक्ता मूर्तिर्दिजाः सा तु संध्या तेनाभवद्दिजाः॥५०॥ पुनश्च सत्त्वसंयुक्तमिति । पितॄन्देवपितॄन् ऋतून 'ऋतवः खलु वै देवाः पितरः' इति श्रुतेः । मनुष्यपितरस्तु तदा न जाता एव । तान्सृष्ट्वा त्यक्तं शरीरं संध्या जाता । श्रूयते हि-स उपपक्षाभ्यामेवर्तनसृजत तेभ्यो रजते For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy