SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता । [१ शिवमाहात्म्य खण्डे यतीनां मन्त्रिणां चैव ज्ञानिनां योगिनां तथा । ध्यानपूजानिमित्तं हि तनुं गृह्णाति मायया " इति । अद्भुता विक्रमात्रिपुरदहनादयो यस्य तम् । अम्बिकायाः पार्वत्याः पतिरम्बिकापतिस्तमिति च । विजयपरिणयनादयः परमेश्वरस्य लीला दर्शिताः । तर्हि प्राकृतपुरुषवदेव रागद्वेषादिदोषपारतन्त्र्यात्संसार्येवासौ तत्राह । ईशानमनीशमिति । संसारिणो हि अनीशितृत्वात्पुरुषान्तरपरतत्रत्वाच्च स्वयमनीशा ईशवन्तश्च | शिवस्तु लीलयैव विजयपरिणयनादिव्यापारानाचरन्नपि रागद्वेषादिविरही सर्वजगदीशिता च । न पुरुषान्तरपरतन्त्र इति । न लौकिकसम इत्यर्थः । ननु लोकवदेव सर्वेऽपि व्यवहाराः शिवस्यापि श्रूयन्ते । अत एषां लीलारूपतैव कुत इत्यत आह- अनन्तेति । अन्तः परिच्छेदस्तद्रहितयोरानन्दबोधयोरम्बुनिधिः समुद्रश्च तत्कृतपरिच्छेदविरहात् । पारमेश्वरयोरानन्दज्ञानयोर्न लौकिकानन्दज्ञानवदुत्पत्तिविनाशवत्त्वम् । वस्तुकृतपरिच्छेदविरहाश्च तयोरखण्डैकरसत्वम् । अतिशायिनो वस्त्वन्तरस्याभावेन निरतिशयित्वं चेति कुतो लौकिकव्यवहारसाधारणाशङ्कावकाश इत्यर्थः । यद्यप्यपां निधिरन्तवान्सातिशयश्च तथाऽपि लौकिकानां समुद्रेऽन्तवत्त्व सातिशयत्त्वविरहाभिमानात्तदभिमतदृष्टान्तेनैव परमेश्वरस्याप्यनन्तत्वं निरतिशयत्वं प्रदर्शयितुमम्बुनिधिना रूपकं कृतमिति । ननु लौकिका अपि सर्वात्मकादीश्वरादभिन्ना एवेति कथं तदीयौ ज्ञानानन्दौ न तत्सदृशाविति । सत्यम् । तत्सदृशौ । अज्ञानेनावृतत्वात्तु तत्सादृश्यं न ते जानन्ति । उक्तं हि "अज्ञानेनावृतो रामः साक्षान्नारायणोऽपि च । स्वस्वरूपं तु नाज्ञासीत्" इति । अतस्तिरोहितज्ञानत्वालौकिकानां व्यापाराद्दुःखमया एव न लीलाः । अनावरणपरमानन्दज्ञानत्वेन तु परमेश्वरस्य विजयपरिणयनादिव्यापारा लीला एवेत्यभिप्रायः । अत्र निष्कलशिवस्य तपतयावस्थानमेव प्रणामः । सकलस्प तु ध्यानस्तुति पूजात्मकः । तदुक्तं सुप्रभेदे -- " ध्यानपूजाविहीनं यन्निष्कलं तद्विधायकम् । तत्तस्मात्सकलं शम्भुं निष्कलं संप्रपूजयेत्" इति ॥ २ ॥ सत्रावसाने मुनयो विशुद्धहृदया भृशम् । नैमिषीया महात्मानमागतं रोमहर्षणम् ॥ ३ ॥ इत्थं मङ्गलाचरणं विधाय ऋषिसूतसंवादात्मना पुराणमारभते । सत्रावसान For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy