SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १४ ] पुराणे ते च सूत्रे द्वे अर्वाचीना च संहिता। न्यायसूत्रं ततः पश्चात् कथं साम्यं विभाव्यते ॥ ११७ ।। वैदकरूपता तत्र नैक रोगचिकित्सनम् । अनेकारंभसंयुक्तं चरकं परिभाव्यताम् ।। १३८ ।। तयोः केन प्रकारेण साम्यत्वं तेन साधितम् । तत्तु स एव जानाति बुद्धि शून्यत्व योगतः ॥ ११६ ॥ विना विचार्य वक्तव्यं पण्डितानां न शोभते । शंकरस्वामिभाष्यं हि यथा हास्यास्पदं महत् ॥ १२० ॥ जैनदृष्टिमविज्ञाय लिखने दोषता बहु।। आधुनिकाश्च विद्वांसः हास्यं कुर्वन्ति सर्वथा ॥ १२१ ।। कोयत्य ज्ञानता तेषां जैनदृष्टिनिरासने । प्रतिपादनशैली च प्रामाण्यरहिता सदा ।। १२२ ।। अनन्तावयवा-जीवे नो मता जैनदर्शने । कथं शंकर स्वाम्यादि संन्यासिना निरूपिताः ।। १२३ ।। त्रिविधजीवभेदाश्च नित्य सिद्धादि रूपतः । सर्वत्र जैनशास्त्रेषु तादृक्षानेव कीर्तिताः ।। १२४ ॥ पुद्गलास्तित्व कायानां षोढ़ात्वं तनिरूपितम् । चत्वारि चैव भूतानि स्थावरं जंगमं तथा ॥ १२५॥ खपुष्पसदृशं जैने तत्सर्व परिकीर्तितम् । जैनदर्शनज्ञानस्य सर्वथा तत्रामावता ।। १२६ ।। धर्मास्तिकायतत्त्वस्य व्याख्याऽपि तादृशी खलु। अधर्मास्तित्वकायत्वं यत्र तत्रैव मोक्षता ॥ १२७ ॥ For Private And Personal Use Only
SR No.020766
Book TitleSudarshan Pandit Pratyuttar va Bhram Shodhak
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Shavchand Shah
Publication Year1941
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy