SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शनचरितम् [४, ८९तावत्तत्र समायातः स श्रेष्ठी तं विलोक्य च । सुधीः सागरदत्तोऽपि समुत्थाय कृतादरः ॥९॥ स्थानासनशुभैर्वाक्यैश्चक्रे संमानमुत्तमम् । स स्वभावः सतां नित्यं विनयो यः सजनेष्वलम् ।।९।। ततः कुशलवाता च कृत्वा साधार्मिकोचिताम् । जगौ कन्यापिता प्रीतो भो श्रेष्ठिन् सज्जनोत्तम ।।२१।। पवित्रं मन्दिर मेऽद्य संजातं सुविशेषतः । यद्भवन्तः समायाताः पवित्रगुणसागराः ॥१२।। कृत्वा कृपां तथा प्रीत्या कार्य किमपि कथ्यताम् । ततो वृषभदासोऽपि प्रोवाच स्वमनीषितम् ।।२।। मनोरमा शुभा पुत्री त्वदीया पुण्यपावना । त्वया सुदर्शनायाशु दीयतां परमादरात् ॥२४॥ तं निशम्य सुधीः सोऽपि तुष्टः सागरदत्तवाक् । जगौ श्रेष्ठिन् सुधीः सारसुवर्णमणिसंभवः ।।१५।। संयोगः शर्मदो नित्यं कस्य वा न सुखायते। अतः कन्या मया तस्मै दीयते त्वत्तुजे मुदा ।।९६।। शृणु चान्यद्वचो भद्र गदतो मम साम्प्रतम् । ययोरेव समं वित्तं ययोरेव समं कुलम् ।।७।। तयोमैत्री विवाहश्च न तु पुष्टाविपुष्टयोः । श्लोकोऽयं सत्यमापन्नः संबन्धादावयोरपि ।।६८।। गदित्वेति समाहूय श्रीधराख्यं विचणक्षम् । ज्योतिष्कशास्त्रसंपन्नं दत्वा मानं वणिग्जगौ ।।२९।। ब्रूहि भो त्वं शुभं लग्नं विवाहोचितमुत्तमम् । व्यवहारः सतां मान्यो यः शुभो भव्यदेहिनाम् ॥१०॥ १. 'दीयते' इति पाठः । For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy