SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra –१, ११० ] www.kobatirth.org प्रथमोऽधिकारः Acharya Shri Kailassagarsuri Gyanmandir स्वर्णस्तम्भाग्रसंलग्नध्वजत्रातैर्मरुद्धृतैः । I तां सभामाह्वयन्तीं वा नाकिनो वीक्ष्य तुष्टवान् ॥ ९८ ॥ रूप्यशालं विशालं च गोपुरै रत्नतोरणैः । यशोराशिमिवालोक्य जिनेन्द्रस्य मुदं ययौ ॥ ९९ ॥ ततः कल्पद्रुमाणां च वनं सारसुखप्रदम् । समन्ताद्वीक्ष्य संतुष्टो भूपालो न ममौ हृदि ॥ १०० ॥ स्वर्णरत्नविनिर्माणां नानाहयिवलीं शुभाम् विश्रामाय सुरादीनां दृष्ट्वा दृष्टो नृपस्तराम् ॥ १०१ ॥ चतुर्दिक्षु महास्तूपान् पद्मरागविनिर्मितान् । जिनेन्द्रप्रतिमोपेतान् पत्रिंशत्सुमनोहरान् ।। १०२ ॥ रत्नतोरणसंयुक्तान् सुरासुरसमर्चितान् । प्रभुस्तान पूजयामास वस्तुभिः सज्जनैर्युतः ।। १०३ ।। ततो मार्ग समुल्लङ्घ्य स्फाटिकं शालमुन्नतम् | चतुर्गापुरसंयुक्तं निधानैर्मङ्गलैर्युतम् ॥। १०४ ।। तन्मध्ये षोडशोत्तुङ्गभित्तिभिः परिशोभितम् । सभास्थानं जिनेन्द्रस्य द्वादशोरुप्रकोष्टकम् || १०५ ॥ एवं श्रीमन्महावीरसमवादिसृतिं प्रभुः । त्रिः परीत्य महाप्रीत्या संतुष्टः श्रेणिकस्तराम् ॥ १०६ ॥ तत्र त्रिमेखलापीठे सिंहासनमनुत्तरम् । मेरुशृङ्गमिवोत्तुङ्गं स्वर्णरत्नैर्विनिर्मितम् ॥ १०७ ॥ चतुर्भिरङ्गलैर्मुक्तास्थितं वीर जिनेश्वरम् । निधान मित्र संवीक्ष्य पिप्रिये भूपतिस्तराम् || १०८ ॥ चतुःषष्टिमहादिव्यचामरैरामरैर्युतम् । विशुद्धनिर्झरोपेतं स्वर्णाचलमिवाचलम् ।। १०९ ।। सर्व शोकापहं देवं महाशोकतरुश्रितम् । सारमेघान्वितं चारु काञ्चनाभं महीधरम् ।। ११० ।। For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy