________________
Shri Mahavir Jain Aradhana Kendra
8
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम्
श्रुतेन येन संपत्तिर्भवेल्लोकद्वये शुभा । शृण्वन्तु साधवो भव्यास्तद्वृत्तं शर्मकारणम् ॥ ३६ ॥ अथ जम्बूमति द्वीपे सर्वद्वीपाधिमध्यगे । मेरुः सुदर्शनो नाम लक्षयोजनमानभाकू ।। ३७ ।। यच्चतुर्षु वनेषूच्चैश्चतुर्दिक्षु समुन्नताः । जिनेन्द्रप्रतिमोपेताः प्रासादाः सन्ति शर्मदाः ॥ ३८ ॥ तस्य दक्षिणतो भाति भरतक्षेत्रमुत्तमम् । जिनानां पञ्चकल्याणैः पवित्रं शर्मदायकैः ।। ३२ ।। तत्रास्ति मगधो नाम देशो भुवनविश्रुतः । यत्र स्वपूर्व पुण्येन संवसन्ति जनाः सुखम् ॥ ४० ॥ योऽनेकनगर ग्रामपुर पत्तनकादिभिः । नानाकारैर्विभात्युच्चैः सुराजेव सुखप्रदः ॥ ४१ ॥ धनैर्धान्यैः जनैर्मान्यैः संपदाभिव संभृतः । राजते देशराजोऽसौ निधिर्वा चक्रवर्तिनः ॥ ४२ ॥ यत्र नित्यं विराजन्ते पद्माकरजलाशयाः । स्वच्छतोयाः सुविस्तीर्ण महतां मानसोपमाः ॥ ४३ ॥ इक्षुभेदै रसैरन्यैः सरसैः सत्फलादिभिः । यो नित्यं दर्शयत्युच्चैः सौरस्यं निजसंभवम् ॥ ४४ ॥ यत्र मार्गे बनादौ च सफलास्तुङ्गपादपाः । सुछायाः सज्जना वोच्चैर्भान्ति सर्वप्रतर्पिणः ॥। ४५ ।। यत्र देशे पुरे ग्रामे पत्तनेसुगिरौ वने । जिनेन्द्रभवनान्युच्चैः शोभन्ते सद्ध्वजादिभिः ॥ ४६ ॥ भव्या यत्र जिनेन्द्राणां नित्यं यात्राभिरादरम | प्रतिष्ठाभिर्गरिष्ठाभिः संचयन्ति महाशुभम् ॥ ४७ ॥ पात्रदानैर्महामानैः सज्जनैः परिवारिताः । धर्मं कुर्वन्ति जैनेन्द्रं श्रावका हग्नतान्विताः ॥ ४८ ॥
For Private And Personal Use Only
[ १, ३६