________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्यानन्द - विरचितं
सुदर्शन-चरितम्
प्रथमोऽधिकारः
प्रणम्य वृषभं देवं लोकालोक प्रकाशकम् । अजितं जितशत्रुघ्नं जितशत्रुसमुद्भवम् ॥ १ ॥ संभवं भवनाशं च स्तुवेऽहमभिनन्दनम् । सर्वज्ञं सर्वदर्श च सप्ततत्त्वोपदेशकम् ॥ २ ॥ वन्दे सुमतिदातारं चिदानन्दं गुणाणवम् । पद्मप्रभं च तद्वर्णं प्रातिहार्यादिभूषितम् ॥ ३ ॥ सुपार्श्व च सदानन्दं धर्मणीशं जगद्गुरुम् । धर्मभूषणसंयुक्तं स्तुवेऽहं जिनसप्तमम् ॥ ४ ॥ महासेनसमुद्भूतं चन्द्र चिह्नं जिंनं वरम् । चन्द्रप्रभं पुष्पदन्तं च श्वेतवर्ण स्तुवे सदा ॥ ५॥ शीतलं शीतलं वन्दे व्याधित्रयविनाशकम् । पञ्चसंसारदावाग्निशमनैकघनाघनम् ॥ ६ ॥ पावनं श्रेयसं वन्दे श्रेयोनिधिं सदा शुचिम् । वासुपूज्यं जगत्पूज्यं वसुपूज्यसमुद्भवम् ॥ ७ ॥ विमलं विमलं वन्दे देवेन्द्राचितपङ्कजम् । अकलङ्कं पूज्यपादं स्तुवे प्रारब्धसिद्धये ॥ ८ ॥ अनन्तं च जिनं वन्दे संसारार्णवतारकम् । धर्मं धर्मस्वरूपं हि भानुराजसमुद्भवम् ॥ ९॥
For Private And Personal Use Only