________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४६) अच्छे का संग अच्छा। वरं न राज्यं न कुराज्यराज्यं. वरं न दारा न कुदारदाराः । वरंन मित्रं न कुमित्रमित्रं, वरं न शिष्यो हि कुशिष्यशिष्यः २७६ दिवा निरीक्ष्य वक्तव्यं, रात्रौ नैव च नैव च । विचरन्ति महाधूर्ताः, वटे वररुचिर्यथा ॥ २७७ ।। स्त्रीणां चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः । क्रोध निन्दा । क्रोधो मूलमनर्थानां क्रोधः संसारवर्धनः । धर्मक्षयंकरः क्रोधस्तस्मात्क्रोधं विवर्जयेत् ॥२७६ ॥ निन्दा अच्छी नहीं है।
मा मतिः परदारेषु परद्रव्येषु मा मतिः ।
परापवादिनी जिह्वा मा भूदेव कदाचन ॥ २८० ॥ वीर कोण है । विरला जानंति गुणा विरला पालन्ति निद्धने नेहं । विरला परकजकरा परदुक्खे दुक्खिया विरला ॥ २८१॥ सजन प्रशंसा। सुजनो न याति विकृति परहितनिरतो विनाशकालेऽपि । छेदेऽपि चंदनतरु सुरभयति मुखं कुठारस्य ॥ २८२ ॥
For Private And Personal Use Only