SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७१) पिपीलिकार्जितं धान्यं मक्षिकासश्चितं मधु । लुब्धेन सश्चितं द्रव्यं समूलं वै विनश्यति ॥११८२ ॥ विवेकः सह सम्पया विनयो विद्यया सह । प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ॥११८३॥ सर्पः क्रूरः खलः क्रूरः सात् क्रूरतरः खलः । मन्त्रेण सान्त्व्यते सर्पः खलस्तु न कथंचन ॥ ११८४ ॥ प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः। तस्मात् तदेव वक्तव्यं वचने किं दरिद्रता ॥११८५ ॥ गौरवं प्राप्यते दानान तु वित्तस्य सञ्चयात् । स्थितिरुच्चैः पयोदानां पयोधीनामधः स्थितिः ॥११८६॥ गीतशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥११८७ ।। यस्मिन् देशे न सम्मानो न प्रीतिर्न च बान्धवाः । न च विद्यागमः शक्यो मा तत्र दिवसं वस ॥११८८ ।। अतिसञ्चयकर्तृणां वित्तमन्यस्य हेतवे । भन्यैः सञ्चीयते यत्नादन्यैश्च मधु पीयते ॥११८९ ॥ च्युता दन्ताः सिता केशा दृष्टिरोधः पदे पदे। क्षीणं जीर्ण मिमं देहं तृष्णा नूनं न मुञ्चति ॥११९० ॥ गुणवजनसम्पर्काद् याति नीचोऽपि गौरवम् । पुष्पाणामनुषङ्गेण सूत्रं शिरसि धार्यते ॥११९१ ॥ गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः ।। वासुदेवं नमस्यन्ति वसुदेवं न मानवाः ॥ ११९२ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy