SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६५) वाहने ये गुणाः प्रोक्तास्ते गुणाः कटिबंधने निवाते ये गुणाः प्रोक्तास्ते गुणाः कर्णबंधने । लंघने ये गुणाः प्रोक्तास्ते गुणा लघुभोजने व्यायामे ये गुणाः प्रोक्तास्ते गुणा प्राणधारणे ॥१११८॥ धनुषि धनुराकारः मकरे कुंडलाकृतिः। कुंभे शीतमशीतं वा मीने शीतनिवारणम् ॥१११६ ॥ मञ्जन्ति मुनयः सर्वे त्वमेकः किं न मजसि । अंबे त्वदर्शनाद् मुक्तिः न जाने स्नानजं फलम् ॥११२०॥ विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च । न्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च गुणो भूषयते रूपं शीलं भूषयते कुलम् । शान्तिभूषयते विद्यां दानं भूषयते धनम् ॥११२२ ।। अतिदानाद् बलिबद्धो ह्यतिदद सुयोधनः विनष्टो रावणो लोभादति सर्वत्र वर्जयेत् ॥११२३ ॥ वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् । वृथा दानं समर्थेभ्यो वृथा दीपो दिवाऽपि च ॥११२४॥ शोभते विद्यया विप्रः क्षत्रियो विजयेन वै । अर्थः पात्रे प्रदानेन लज्जया च कुलाङ्गना ॥११२५ ॥ सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः ।। तत्र सौरभनिर्माणे चतुरश्चतुराननः ॥११२६ ॥ प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविः त्रैलोक्ये दीपको धर्मः सुपुत्रः कुलदीपकः ॥११२७ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy