SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६१ ) आनन्दतांडवपुरे द्रविडस्य गेहे चित्रं वसिष्ठवनितासममाज्यपात्रम् । विद्युल्लतेव परिनृत्यति तत्र दव धारां विलोकयति योगबलेन सिद्धः ।। १०८५ ।। नाहं जानामि केयूरे नाहं जामामि कुण्डले । नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ।। १०८६ ॥ अस्य मूर्खस्य यागस्य दक्षिणा महिपशितम् । स्वयार्धं च मयार्धं च विघ्नं मा कुरु पण्डित ! || १०८७ ॥ यदि नाम दैवगत्या, जगदसरोजं कदाचिदपि जातम् । वकरनिकरं विकिरति, तत् किं कृकवाकुरिव हंसः || १०८८ ॥ खिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु । शुक पञ्जरबन्धस्ते मधुराणां गिरां फलम् । स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः कल्याणिनी भवतु मौक्तिकशुक्तिमाला । प्राप्तं मया सकलमेव फलं पयोधे ।। ११८९ ।। यद्दारुणैर्जलचरैर्न विदारितोऽस्मि कुमुदवन मपनि श्रीमदम्भोजखण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं इतविधिलसितानां ही विचित्रो विपाकः मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् ! तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति १.१ For Private And Personal Use Only ॥ १०९० ॥ ॥ १०६१ ॥ ॥ १०६२||
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy