________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१४८)
कुटिला लक्ष्मीर्यत्र प्रभवति न सरस्वती वसति तत्र । प्रायः श्वश्रूस्नुषयोर्न दृश्यते सौहृदं लोके ॥६७३॥ पिंडे पिंडे मतिर्भिन्ना कुंडे कुंडे नवं पयः।। जाती जातौ नवाचारा नवा वाणी मुखे मुखे ॥ ९७४ ॥ यो न संचरते देशान् यो न सेवेत पंडितान् । तस्य संकुचिता बुद्धिघृतबिन्दुरिवाभसि ॥९७५ ॥ यस्तु संचरते देशान् यस्तु सेवेत पंडितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवामसि ॥३७६ ।। यः पठति लिखति पश्यति परिपृच्छति पंडितानुपासयति । तस्य दिवाकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः॥९७७ एकेन राजहंसेन या शोमा सरसो भवेत् । न सा बकसहस्रेण परितस्तीरवासिना 8७८॥ यथा देशस्तथा भाषा यथा राजा तथा प्रजा। यथा भूमिस्तथा तोयं यथा बीजं तथांकुरः ॥६७६ ॥ स्वगृहे पूज्यते मूर्खः स्वग्रामे पूज्यते प्रभुः। स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥९८० ॥ यत्र विद्वजनो नास्ति श्लाध्यस्तत्राल्पधीरपि । निरस्तपादपे देशे एरण्डोऽपि दुमायते ॥९८१ ॥ नक्रः स्वस्थानमासाद्य गजेन्द्रमापि कर्षति । स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥९८२॥ अश्वः शसं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुषविशेष प्राप्ता भवन्दि योग्या अयोग्याश्च ॥ ९८३ ॥
For Private And Personal Use Only