SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३७) अवश्यंभाविभावानां प्रतीकारो भवेद्यदि । सदा दुःखैन लिप्येरन् नलराजयुधिष्ठिराः ॥८९६ ॥ प्राप्तव्यमर्थ लभते मनुष्यो देवोऽपि तं लवयितुं न शक्तः । तस्मान शोचामि न विस्मयो मे यदस्मदीयं न हि तत् परेषाम् ॥८६७॥ लिखिता चित्रगुप्तेन ललाटेऽक्षरमालिका ।। तां देवोऽपि न शक्नोति उल्लिख्य लिखितुं पुनः ॥८६॥ शशिदिवाकरयोग्रहपीडनम् __ गजभुजंगमयोरपि बन्धनम् मतिमतां च विलोक्य दरिद्रताम् विधिरहो बलवानिति मे मतिः ॥८९९ ॥ तुष्टो हि राजा यदि सेवकेभ्यो भाग्यात् परं नैव ददाति किंचित् । अहर्निशं वर्षति वारिवाहः तथापि पत्रत्रितयः पलाशः ॥९०० ॥ प्रश्वं नैवं गजं नैव व्याघ्रं नैव च नैव च । अजापुत्रं बलिं दद्याद् देवो दुर्बलघातकः ॥९०१ । यः सुन्दरस्तद्वनिता कुरूपा या सुंदरी सा पतिरूपहीना । यत्रोभयं तत्र दरिद्रता च विधेर्विचित्राणि विचेष्टितानि ॥९.२॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy