________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११८ ) विद्याका अध्ययन सहेल नही है। नानुद्योगवता न च प्रवसता मानं न चोत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा । न भ्रूभंगकटाचसुन्दरमुखीं सीमन्तिनीं ध्यायता,
लोके ख्यातिकरः सतां बहुमतो विद्यागुणः प्राप्यते।।७४४॥ श्रीशीतलनाथ तीर्थकरका पृथक् २ वर्णमें रहा हा महत्त्व । मायेन हीनं जलधावदृष्टं, मध्येन हीनं भुवि वर्णनीयम् । अन्त्येन हीनं धुनुते शरीरं, तन्नामकं तीर्थपतिं नमामि ।।
" शीतल " ॥ ७४५॥ दरिद्रताकी शंकासे लोभी और दाता क्या करते है।
लुन्धो न विसृजत्यर्थ, नरो दारिद्रयशंकया । दाताऽपि विसृजत्यर्थ, तयैव ननु शंकया ॥७४६ ॥ ध्येयस्त्वं सर्वसत्त्वानामन्यं ध्यायसि न प्रभो!। पूज्यस्त्वं विबुधेशाना-मपि पूज्यो न ते क्वचित्॥७४७॥ प्राधस्त्वं जगतां नाथ, नैवाद्यः कोऽपि ते प्रभो!। स्तुत्यस्त्वं स्तूयसे नान्यं, जगदीश्वरभावतः ।। ७४८ ॥ शरण्यस्त्वं हि सर्वेषां, न कोऽपि शरणं तव । त्वं प्रभुर्विश्वविश्वस्य, प्रभुरन्यो न ते जिन! ॥ ७४९ ॥ मुक्तिसौख्यं त्वदायत्तं, तदाता यत्परो नहि । परात्परतस्त्वं हि, तवास्ति न परः क्वचित् ॥ ७५०॥
For Private And Personal Use Only