SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३४ सुभगोदयस्तुतिः मार्ग - ज्ञानिनः । प्राज्ञाः । प्राहुः । महान्तः समयिनः तु, बैन्दवगृहे, सकलजननीम्, अमृतझरिकां, शिवाकारां, नित्याम् ऐन्दवकलारूपां त्वां सेवन्ते ॥ ४९ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ षडब्जानीकस्य कालजनकत्वनिरूपणम्- sa 'कालोत्पत्तिस्थितिलयकरं पद्मनिकरं त्रिखण्डं श्रीचक्रं मनुरपि च तेषा च मिलनम् । तदैक्यं षोढा वा भवति च चतुर्धेति च तथा तयोः साम्यं पश्वप्रकृतिकमिदं शास्त्रमुदितम् ॥ ५० ॥ पाठा० - (१) कौलोत्पत्ति० । (२) तु । = इदं पद्मनिकरं षडब्जानीकं कालस्य उत्पत्तिस्थिति-लयात्मकत्रितयकरं त्रिखण्डरूपं श्रीचक्रात्मकम् । एतद्विषयकः मनुरपि पञ्चदशी अपि । एतेषां सर्वेषां मेलनम् ऐक्यानुसंधानम् । तदैक्यप्रकारः तु षोढा चतुर्धा इति तयोः साम्यं पञ्चप्रकृतिकम् इति शास्त्रोदितम् एव । पञ्च प्रकृतिकं = सृष्ट्यादिपञ्चकृत्यात्मकं भूम्यादिपञ्चभूतात्मकम् इति वा ॥ ५० ॥ अथोपासनाफलनिरूपणम् -- उपास्तेरेतस्याः फलमपि च सर्वाधिकमभूत् तदेतत्कौलानां फलमिह हि चैतत्समयिनाम् । सहस्रारे पद्म सुभगसुभगोदेति' सुभगे परं सौभाग्यं यत्तदिह तव सायुज्यपदवी ॥ ५१ ॥ पाठा०- (१) ०क्तेति सुभगं । एतदुपासनाफलं सर्वाधिक्यं स्यात् । एतत्कौलानां समयिनां च समम् एव । हे सुभगे ! देवि ! समयिनां सहस्रारपद्म, सुभग For Private And Personal Use Only
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy