SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२ सुभगोदयस्तुतिः भेदेन द्विधा विभिन्नैः किरणैः करणभूतैः पूजां कुर्वन्ति इति पूर्वेण अन्वयः । द्विधा सृष्टेः इति अत्र "विभालोके " इति पाठान्तरम् । तदा प्रतिबिम्बितकान्तिमयलोके इत्यर्थः वक्तव्यः ॥ ४५ ॥ अथ चक्रेोत्पत्तिकथनम्- , 1 अधिष्ठानाधारद्वितयमिदमेवं' दशदलं सहस्राराज्जातं मणिपुरमतोऽभूद्दशदलम् । हृदम्भोजान्मूलान्नुपदलमभूत् स्वान्तकमलं तदेवैको बिन्दुर्भवति जगदुत्पत्तिकृदयम् ॥४६॥ पाठा०- (१) ०मेतद्दशदलं । (२) मणिपुरमितो० । अधिष्ठानाधारद्वितयं = स्वाधिष्ठानसहितमूलाधारम् । इदं = एतच्चक्रद्वयं दशदलात्मकं सहस्राराज्जातम् । तदुपरि मणिपुरम् अपि दशदलात्मकम् अभूत् । ततः ऊर्ध्वं हृदयकमलम् । तन्मूलात् = ( तस्मात् ) नृपदलं ( षोडशदलं ) विशुद्धचक्रं ततः स्वान्तकमलम् ( = आज्ञाचक्रम् ) अभूत् । एवं बहुप्रकारं विजृम्भितः एक: बिन्दुः एव जगदुत्पत्तिकृत् = मूलाधारादिसर्वच क्रोत्पत्ति( जगदुत्पत्ति ) कृद् भवति ॥ ४६ ॥ , अथ उक्तार्थस्य भङ्ग्यन्तरनिरूपणम् सहस्रारं बिन्दुर्भवति च ततो बैन्दवगृहं तदेतस्माज्जातं जगदिदमशेषं सकरणम् । ततो मूलाधाराद् द्वितयमभवत्तद्दशदलं सहस्राराज्जातं तदिति दशधा बिन्दुरभवत् ॥४७॥ पाठान्तरम् - ( १ ) न करणं । पूर्वश्लोकोक्त बिन्दुः नाम सहस्रारचक्रम् एव भवति । किं च तद् एव बैन्दवगृहम् । तस्माद् बिन्दोः एतत् जगत्, सकरणं = Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy