SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भावबोधिनीटीकासहिता इह तावत् कला-नाद-बिन्दवः ध्वन्यंशाः, वर्णाः चरणसंज्ञकाः, आधार मूलाधार]प्रभृति-षट्चक्राणि, षडब्जसंज्ञकानि । एतेषां परस्परमेलनं येषां समयिनां षोढा भवति, तेषाम् एव चतुर्थोक्यरूपसपर्या हि भवति; तेषां मूलाधारस्वाधिष्ठानयोः सपर्याभावात् ॥१३॥ अथ समयिनां मणिपूरचक्रे देवीसाक्षात्कारकथनद्वारा चतुर्थंक्यकथनम्-- तडिल्लेखामध्ये स्फुरति मणिपूरे भगवती चतुर्थैक्यं तेषां भवति च चतुर्बाहुरुदिता । धनुर्बाणानिषद्भवकुसुमजानकुशवरं तथा पाशं बिभ्रत्युदितरविबिम्बाकृतिरुचिः ॥१४॥ पाठान्तरम्-(१) रुचि। मणिपूरचक्रे एव भगवती विद्युल्लेखा इव भासते समयिनां योगिनाम् इत्यर्थः । अतः [मूलाधारस्वाधिष्ठानयोः सपर्याभावात् तेषां चतुर्थै क्यम् । स्फुरति हि; देवी तावद् उद्यद्रविनिभा चतुर्बाहुभिः इक्षुधनुःपुष्पबाणपाशाङ्कशवद्भिः भासमाना दृश्यते च ॥१४॥ अथ समयिनामत्रैव षड्धैक्यपरिणामभूतसगुणदेवीरूपवर्णनम् भवत्येक्यं षोढा भवति भगवत्याः समयिनां मरुत्वत्कोदण्डद्युतिनियुतभासा समरुचिः । भवत्पाणिवातो दशविध इतीदं मणिपुरे भवानि ! प्रत्यक्षं तव वपुरुषास्ते न हि परम् ॥१५॥ इत्यैक्यनिरूपणम् । हे भगवति ! हे भवानि ! यदा समयिनां षड्_क्यं तदा त्वं दशभुजा एव दृश्यसे । दशसहस्रसुरधनुष्कान्तितुलितकान्त्या For Private And Personal Use Only
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy